________________
रघुवंशमहाकाव्ये स राजलोकः कृतपूर्वसंविदारम्भसिद्धौ समयोपलभ्यम् । आदास्यमानः प्रमदामिषं तदावृत्य पन्थानमजस्य तस्थौ ॥३१॥
संजी०- स इति। आरम्भसिद्धौ कार्यसिद्धौ विषये । पूर्वं कृता कृतपूर्वा । सुप्सुपेति समास: । कृतपूर्वा संवित् संकेतो मार्गावरोधरूप उपायो येन स तथोक्तः। 'संविद्युद्धे प्रतिज्ञायां संकेताचारनाम' इति केशवः। स राजलोकः समरोपलभ्यमजप्रस्थानकाले लभ्यम् । सदा तस्यैकाकित्वादिति भावः । 'समरोपलभ्यम्' इति पाठे युद्ध साध्यमित्यर्थः। तत्प्रमदैवामिषं भोग्यवस्तु । 'आमिषं त्वस्त्रियां मांसे तथा स्याद्भोग्यवस्तुनि' इति केशवः। आदास्यमानो ग्रहीष्यमाणः सन्, अस्य पन्थानमावृत्यावरुध्य तस्थौ ॥३१॥
अन्वयः-आरम्भसिद्धौ कृतपूर्वसंवित् स राजलोक: समयोपलभ्यम् तत् प्रमदामिषम् आदास्यमानः सन् अजस्य पन्थानम् आवृत्य तस्थौ ।
व्याख्या--आरम्भस्य = कार्यस्य सिद्धि:=सफलता तस्याम् आरम्भसिद्धौ विषये पूर्व प्रथमं कृता = निश्चिता, इति कृतपूर्वा संवित् =संकेतः मार्गेऽजस्यावरोधरूपोपाय: येन स कृतपूर्वसं वित् स:=पूर्वोक्त: राज्ञां = भूपालानां लोक:= जनः समूह इति राजलोकः समये =अजयात्रासमये लभ्यं = प्राप्यम्, ( तदा अजस्यकाकित्वात्, अन्येषां बहुत्वात् ) इति समयोपलभ्यम् तत् = प्रसिद्धम् प्रकृष्टो मदोऽस्ति अस्याः सा प्रमदा, प्रमदा = कामिनी एव आमिषं = भोग्यवस्तु तत् प्रमदामिषम् आदास्यते इति आदास्यमान:=ग्रहीष्यमाणः, अग्रे आदातुमिच्छनित्यर्थः सन् अजस्य रघुपुत्रस्य पन्थानं मार्गम् आवृत्य प्रतिरुध्य मार्गावरोधं कृत्वेत्यर्थः तस्थौ स्थितः। मार्ग एकाकिनं यान्तमजं युद्धेन विजित्य स्त्रीरत्नं हरिष्यामः इति पूर्वमेव संकेतं कृत्वा सर्वे नृपा: मार्गे स्थिता: ।
समास:-आरम्भस्य सिद्धिस्तस्यामारम्भसिद्धौ। पूर्वं कृता कृतपूर्वा, कृतपूर्वा संवित् येन स तथोक्तः। राज्ञां लोकः राजलोकः । समये उपलभ्यं समयोपलभ्यम् तत् । प्रमदा एव आमिषमिति प्रमदामिषम् तत् ।।
हिन्दी-कार्य की सिद्धि के विषय में पहले ही निश्चय कर लेनेवाले राजा लोग (जब अज अकेला इन्दुमती को लेकर जावे तभी रास्ते में रोक कर छीन लेंगे ) चलने के समय मिलने वाली स्त्री रूपी भोग्य वस्तु को छीनने की इच्छा करके, अज के मार्ग को रोककर (छेककर) खड़े हो गए ॥३१॥