________________
सप्तमः सर्गः
१०५ प्रेरिता 'होमं कुरु' इति, आहुतिदानाय नियुक्तेति भावः । माद्यतीति मत्तः, चकतीति चकोरः मत्त:=प्रसन्नश्चकोर:=चक्रवाकस्तस्येव नेत्रे नयने यस्याः सा मत्तचकोरनेत्रा। लज्जास्ति यस्याः सा, लज्जावती=ह्रीमती सा पूर्वोक्ता= उह्यते सा वधूः नारी इन्दुमतीत्यर्थः अग्नौ = वह्नौ लाजानां = मृष्टधान्यानां विसर्ग=त्यागं चकार- कृतवती ।
समास:-नितम्बेन गुर्वी नितम्बगुर्वी, विशेषेण धारयतीति विधाता तेन प्रतिमस्तेन विधातृप्रतिमेन । मत्तश्चासौ चकोर:, मत्तचकोरस्तस्य नेत्रे इव नेत्रे यस्याः सा मत्तचकोरनेत्रा। लाजानां विसर्गस्तं लाजविसर्गम्।।
हिन्दी--बड़े-बड़े नितम्बों वाली प्रसन्न चकोर के समान आँखों वाली शरमीली उस इन्दुमती ने ब्रह्मा के समान पूज्य पुरोहितजी की प्रेरणा से अग्नि में धान का लावा छोड़ा। अर्थात् धान के लावे का हवन किया ॥२५॥
हविःशमीपल्लवलाजगन्धी पुण्यः कृशानोरुदियाय धूमः। कपोलसंसपिशिखः स तस्या मुहूर्त कर्णोत्पलतां प्रपेदे ॥२६।।
संजी०--हविरिति । हविष आज्यादेः शमीपल्लवानां लाजानां च गन्धोऽस्यास्तीति हविःशमीपल्लवलाजगन्धी। 'शमीपल्लवमिश्राल्लाजानञ्जलिना वपति' इति कात्यायनः। पुण्यो धूमः कृशानोः पावकादियायोद्भतः । कपोलयोः संसर्पिणी प्रसरणशीला शिखा यस्य स तथोक्तः स धूमस्तस्या वध्वा मुहूर्त कर्णोत्पलतां कर्णाभरणतां प्रपेदे ।।२६॥
अन्वयः-हविःशमीपल्लवलाजगन्धी पुण्यः धूमः कृशानोः उदियाय, कपोलसंसपिशिखः स तस्या मुहूर्तकर्णोत्पलतां प्रपेदे।
व्याख्या-शमयति रोगानिति शमी तस्याः पल्लवाः हविः =आज्यादि शमीपल्लवा- शिवाकिसलयानि लाजाः= मष्टधानाः, एतेषामितरेतरयोगः, हविःशमीपल्लवलाजाः,तेषां गन्धः सौरभमस्यास्तीति हविःशमीपल्लवलाजगन्धी,पुण्यः पवित्रः धूमः कृशानोः वह्नः = पावकादित्यर्थः, उदियाय = उत्थितः संसपितुं शीलं यस्याः सा संसर्पिणी, कम्पते चलति इति कपोल: अथवा कं सुखं पोलतीति कपोल: कपोलयो: गण्डस्थलयोः संसपिणी प्रसरणशीला शिखा-चूडा यस्य स तथोक्तः सः धूमः तस्याः इन्दुमत्याः मुहुर्त=क्षणम् उत्पलस्य भावः कर्म वा उत्पलता कर्णयोः= श्रोत्रयोः उत्पलता कमलता तां कर्णोत्पलतां = कर्णभूषणतामित्यर्थः प्रपेदे प्राप।