________________
१०४
रघुवंशमहाकाव्ये णम् । अहश्च त्रियामा चाहस्त्रियामं रात्रिंदिवमिव । समाहारे द्वंद्वैकवद्भावः । चकासे दिदीपे ॥२४॥ __ अन्वयः-तन्मिथुनम् उचिषः कृशानो: प्रदक्षिणप्रक्रमणात्, मेरो: उपान्तेषु वर्तमानम्, अन्योऽन्यसंसक्तम् अहस्त्रियामम् इव चकासे । ___ व्याख्या-मेथतीति ( संगच्छत इति ) मिथुनम् तयोः अजेन्दुमत्योः मिथुनम् =द्वन्द्वम्, उत् = उन्नतम् अचिः = ज्वाला यस्य स उदचिस्तस्य उचिषः, कृश्यतीति कृशानुस्तस्य कृशानो:= वह्नः, प्रगतम् दक्षिणमिति प्रदक्षिणं यत् प्रक्रमणं- गगनमिति प्रदक्षिणप्रक्रमणं तस्मात् प्रदक्षिणप्रक्रमणात्-प्रदक्षिणाकरणात् मेरो:=सुमेरुपर्वतस्य, उपान्तेषु=समीपेषु वर्तमानम् =आवर्तमानम सुमेरुपर्वतस्य प्रदक्षिणां कुर्वदित्यर्थः । अन्योऽन्यस्मिन् = परस्परस्मिन् संसक्तम् = संगतम् अहः दिनञ्च त्रियामा=रात्रिश्चेति अहस्त्रियामम् इव = यथा चकासे == बभासे ।
समास:-तयोः मिथुनमिति तन्मिथुनम्, प्रदक्षिणं यत् प्रक्रमणं तस्मात् प्रदक्षिणप्रक्रमणात् । उद् अचिर्यस्य सः तस्य उचिषः। अन्योन्यस्मिन् संसक्तमिति. अन्योन्यसंसक्तम् । अहश्च त्रियामा च अनयोः समाहारः अहस्त्रियामम् ।
हिन्दी-अज और इन्दुमती का जोड़ा, प्रज्वलित हवन की अग्नि की परिक्रमा करते हुये ऐसा लग रहा था मानो सुमेरुपर्वत की प्रदक्षिणा करते हुये परस्पर मिले दिन और रात्रि हों ॥२४॥
नितम्बगुर्वी गुरुणा प्रयुक्ता वधूविधातृप्रतिमेन तेन । चकार सा मत्तचकोरनेत्रा लज्जावती लाजविसर्गमग्नौ ।।२५।। संजी०-नितम्बेति । नितम्बेन गुर्व्यलघ्वी । 'दुर्धरालघुनोगुर्वी' इति शाश्वतः । विधातृप्रतिमेन ब्रह्मतुल्येन तेन गुरुणा याजकेन प्रयुक्ता 'जुहुधि' इति नियुक्ता मत्तचकोरस्येव नेत्रे यस्याः सा वधूः । अग्नौ लाजविसर्ग चकार ॥२५॥
अन्वयः-नितम्बगुर्वी विधातृप्रतिमेन तेन गुरुणा प्रयुक्ता मत्तचकोरनेत्रा लज्जावती सावधः अग्नौ लाजविसर्ग चकार ।
व्याख्या-निभृतं तम्यते = अभिलष्यते कामुकरिति नितम्बः, नितम्बेन = कटिपश्चाद्भागेन गुर्वी = अलघ्वी स्थूलेत्यर्थः, नितम्बगुरू विधात्रा = ब्रह्मणा प्रतिमा तुल्यस्तेन विधातृप्रतिमेन तेन प्रसिद्धन गुरुणा=पुरोहितेनेत्यर्थः, प्रयुक्ता