________________
सप्तमः सर्गः
१०३ तयोरपाङ्गप्रतिसारितानि क्रियासमापत्तिनिवतितानि । ह्रीयन्त्रणामान शिरे मनोज्ञामन्योन्यलोलानि विलोचनानि ॥२३॥
संजी०-तयोरिति । अपाङ्गेषु नेत्रप्रान्तेषु प्रतिसारितानि प्रवर्तितानि क्रिययोनिरीक्षणलक्षणयोः समपत्त्या यदृच्छासंगत्या निवतितानि प्रत्याकृष्टान्यन्योन्यस्मिल्लोलानि सतृष्णानि । 'लोलश्चलसतृष्णयोः' इत्यमरः । तयोर्दपत्योविलोचनानि दृष्टयो मनोज्ञां रम्यां ह्रिया निमित्तेन यन्त्रणां संकोचमानशिरे प्रापुः ॥२३॥
अन्वयः-अपाङ्गप्रतिसारितानि, क्रियासमापत्तिनिवतितानि, अन्योन्यलो. लानि तयोः विलोचनानि, मनोज्ञां ह्रीयन्त्रणाम आनशिरे।
व्याख्या–अपाङ्गेषु = नेत्रप्रान्तेषु प्रतिसारितानि =प्रवर्तितानि, इति अपांगप्रतिसारितानि । क्रिययो: अवलोकनरूपयोः समापत्तिः = यदृच्छया संगतिः, तया निवतितानि = प्रत्यावर्तितानि, इति क्रियासमापत्तिनिवर्तितानि । अन्योन्यस्मिन् परस्परस्मिन् लोलानि = सतृष्णानि, अन्योन्यलोलानि । तयोः= दम्पत्योः = अजेन्दुभत्योरित्यर्थः, विलोचनानि =नयनानि मनोज्ञां = रम्यां ह्रिया = लज्जया कारणेन, यन्त्रणा = संकोचस्तां ह्रीयन्त्रणाम् । आनशिरे = प्राप्तानि ।
समास:-अपाङ्गन्तीति अपांगास्तेषु प्रतिसारितानीति, अपांगप्रतिसारितानि । क्रियाया: समापत्तिरिति त्रियासमापत्तिस्तया निवतितानि तथोक्तानि । अन्योन्यस्मिन् लोलानीति अन्योऽन्यलोलानि । मनो जानातीति मनोज्ञा तां मनोज्ञाम् । ह्रिया (हेतुना ) यन्त्रणाम् तां ह्रीयन्त्रणाम् ।
हिन्दी-जो कनखियों तक फैलाये गये और नजर टकराने पर लौटा लिये, तथा परस्पर देखने के लिये अतीव उत्सुक (ऐसे) अज इन्दुमती के नेत्र, लाज के कारण संकोच को प्राप्त हो गये, उनका यह नेत्रसंकोच अतीव मनोहर था। अर्थात् दोनों की नजर मिलते ही शरम से झुक जाती थी ॥२३॥
प्रदक्षिणप्रक्रमणात्कृशानोरुचिषस्तन्मिथनं चकासे। . मेरोरुपान्तेष्विव वर्तमानमन्योन्यसंसक्तमहस्त्रियामम् ॥२४॥
संजी०--प्रदक्षिणेति । तन्मिथुनमुचिष उन्नतज्वालस्य कृशानोर्वहः प्रदक्षिणप्रक्रमणात् प्रदक्षिणीकरणात् मेरोरुपान्तेषु समीपेषु वर्तमानमावर्तमानम् । मेरुं प्रदक्षिणीकुर्वदित्यर्थः । अन्योन्यसंसक्तं परस्परसंगतम् । मिथुनस्याप्येतद्विशेष