________________
१०६
रघुवंशमहाकाव्ये
समासः-शम्याः पल्लवाः शमीपल्लवा:, हविश्च शमीपल्लवाश्च लाजाश्च (एतेषामितरेतरयोगः) हविःशमीपल्लवलाजास्तेषां गन्धोऽस्यास्तीति हविःशमीपल्लवलाजगन्धी । कपोलयोः संसर्पिणी शिखा यस्य स तथोक्तः । उत्पलस्य भावः उत्पलता कर्णयोः उत्पलता मुहूर्तं कर्णोत्पलता तां मुहूर्तकर्णोत्पलताम् ।
हिन्दी--घी तथा शमी के पत्तों और धान की खील की सुगन्ध वाला पवित्र धूवां अग्नि से निकला । (और) वह धूवां इन्दुमती के कपोलों के पास पहुंचकर क्षणभर के लिये उसके कानों का आभूषण बन गया। अर्थात् कपोलों के पास जब धूवाँ पहुँचा तो ऐसा जान पड़ा कि मानो इन्दुमती ने नील कमल के कर्णफूल पहने हो ॥२६॥
तदञ्जनक्लेदसमाकुलाक्षं प्रम्लानबीजाङ्करकर्णपूरम् । वधूमुखं पाटलगण्डलेखमाचारधूमग्रहणाद्बभूव ॥ २७ ॥
संजी०--तदिति । तद्वधूमुखमाचारेण प्राप्ताद्धृमग्रहणात् । अञ्जनस्य क्लेदोऽजनक्लेदः । अञ्जनमिश्रबाष्पोदकमित्यर्थः । तेन समाकुलाक्षम् । प्रम्लानो वीजाङ्कुरो यवाङ्कुर एव कर्णपूरोऽवतंसो यस्य तत् पाटलगण्डलेखमरुणगण्डस्थलं च बभूव ॥ २७ ॥
अन्वयः-तद् वधूमुखम् आचारधूमग्रहणात्, अञ्जनक्लेदसमाकुलाक्षम् प्रम्लानबीजाङ्करकर्णपूरम्, पाटलगण्डलेखं च बभूव ।
व्याख्या-तत् पूर्वोक्तम् वध्वाः इन्दुमत्या: मुखम्-आननम् आचारेण प्राप्तः आचारप्राप्तः, आचारप्राप्तश्चासौ धूमश्च आचारधूमः, आचारधूमस्य = मांगलिकमस्य ग्रहणं =स्वीकरणं तस्मात् तथोक्तात् । अञ्जनस्य क्लेदः अञ्जनक्लेदः, अञ्जनक्लेदेन = कज्जलमिश्राश्रुजलेन समाकुले = व्याप्ते अक्षिणी = नेत्रे यस्मिन् तत् अञ्जनक्लेदसमाकुलाक्षम् । प्रम्लानः = प्रग्लानः बीजाङकुरो यवाङकुर एव कर्णपूरः = कर्णभूषणं यस्य तत् प्रम्लानबीजाकुरकर्णपूरम् । पाटला= ईषद्रक्ता गण्डलेखागण्डस्थलं यस्मिन् तत् पाटलगण्डलेखं च-अपि बभव-जातम् ।
समास:-वध्वाः मुखम् वधूमुखम् । आचारेण प्राप्तः आचारप्राप्तः आचारप्राप्तश्चासौ धूमस्तस्य ग्रहणं तस्मात् आचारधूमग्रहणात्। अञ्जनस्य क्लेदः अञ्जन