________________
सप्तम: सर्गः
अन्वयः-महार्हसिंहासनसंस्थितः असौ भोजोपनीतम् सरत्नम्, मधुपर्कमिश्रम् अर्घ्य दुकूलयुग्मं च वनिताकटाक्षः सार्ध जग्राह ।
व्याख्या-महदहं च महार्ह महार्हञ्च तत्सिहासनमिति-महार्हसिंहासनम्, तस्मिन् महार्हसिंहासने = बहुमूल्यसिंहपीठे संस्थितः = उपविष्टः असौ = अजः भोजेन = राज्ञा उपनीतम् = आनीतम् रत्नैः हीरकादिभिः सहितम् = युक्तम् सरत्नं मधुपर्केण = घृतमधुदधिजलशर्करात्मकेन द्रव्येण मिश्रम् = संमिलितम् अय॑म् = पूजासाधनद्रव्यम् दुकूलयोः = क्षोमयोः युग्मं = द्वयमिति दुकूलयुग्मञ्च वनितानां = स्त्रीणां कटाक्षाः = अपांगदर्शनानि तैः वनिताकटाक्षः सार्धं = सहितं यस्मिन् कर्मणीति जग्राह = गृहीतवान् ।
समासः- महच्च तदहञ्चेति महाहँ महाहञ्च तस्सिहासनं तस्मिन् संस्थितः इति महार्हसिंहासनसंस्थितः । भोजेन उपनीतमिति भोजोपनीतं तत् भोजोपनीतम् । रत्नैः सह वर्तते इति सरत्नम्, तत् । मधुपर्केण मिश्रमिति मधुपर्कमिश्रम्, तत् । दुकूलयोः युग्ममिति दुकलयुग्मम्, तत् । वनितानां कटाक्षास्तैः वनिताकटाक्षः ।
हिन्दी-बहुमूल्य सिंहासन पर बैठे हुए अज ने राजा भोज से भेंट किया हुआ रत्नों से युक्त तथा मधुपर्क से मिला, अर्घ्य ( पूजन सामग्री ) और रेशमी वस्त्र के जोड़े को स्त्रियों की बांकी चितवन के साथ स्वीकार किया। घी मधु दही जल शर्करा मिले द्रव्य को 'मधुपर्क' कहते हैं ॥१८॥
दुकूलवासाः स वधूसमीपं निन्ये विनीतैरवरोधरः। वेलास काशं स्फुटफेनराजिनवरुदन्वानिव चन्द्रपादः ।।१९।।
संजी०--दुकूलेति । दुकुलवासाः सोऽजः विनीतर्न नैरवरोधरक्षरन्त:पुराधिकृतैर्वधूसमीपं निन्ये । तत्र दृष्टान्तः-स्फुटफेनराजिरुदन्वान् समुद्रो नवतनैश्चन्द्रपादैश्चन्द्रकिरणैर्वेलाया: सकाशं समीपमिव । पूर्णदृष्टान्तोऽयम् ।। १९॥ ___अन्वयः-दुकूलवासाः स: विनीतैः अवरोधरक्ष : स्फुटफेनराजि: उदन्वान् नवैः चन्द्रपादै: वेलासकाशम् इव वधूसमीपम् निन्ये।
व्याख्या-दुकलं = क्षौमं वासः = वस्त्रं यस्य स दुकूलवासाः सः = अजः विनीतैः = शिक्षितैः शिष्टैरित्यर्थः, अवरोधम् = अन्तःपुरं रक्षन्ति =पालयन्ति ते अवरोघरक्षास्तै : अवरोधरक्षः, स्फुटा = स्पष्टा फेनस्य = अब्धिकफस्य राजिः = पंक्तिः यस्य सः स्फुटफेनराजिः, उदकानि = जलानि सन्ति अस्य स उदन्वान् =