________________
रघुवंश महाकाव्ये
समुद्रः नवैः = नूतनैः चन्द्रस्य = इन्दोः पादाः = किरणास्तैः चन्द्रपादैः, वेलाया:= तटस्य समीपं = सकाशमिति वेलासमीपम् इव = यथा वध्वाः = इन्दुमत्याः समीपं = पार्श्वम् निन्ये = नीतः ।
१००
समास: - दुकूलं वासो यस्य सः, दुकूलवासाः । वध्वाः समीपमिति वधूसमीपम्, तत् । अवरोधं रक्षन्ति तें तैः अवरोधरक्षैः । वेलायाः सकाशमिति वेलासकाशम् तत्, स्फुटा फेनस्य राजिः यस्य सः स्फुटफेनराजि: । चन्द्रस्य पादास्तैः चन्द्रपादैः ।
हिन्दी - पट्ट वस्त्र को धारण किये हुए अज को रनिवास के नम्र सेवक वैसे ही वधू के पास ले गए, जैसे उजली ( स्पष्ट ) झागवाले समुद्र को नई-नई चन्द्र की किरणें तट के पास ले जाती ॥ १९॥
तत्राचितो भोजपतेः पुरोधा हुत्वाग्निमाज्यादिभिरग्निकल्पः । तमेव चाधाय विवाहसाक्ष्ये वधूवरी संगमयांचकार ||२०|| संजी० - - तत्रेति । तत्र सद्मन्यचितः पूजितोऽग्निकल्पोऽग्नितुल्यो भोजपतेर्भोजदेशाधीश्वरस्य पुरोधाः पुरोहितः । 'पुरोधास्तु पुरोहितः' इत्यमरः । आज्यादिमिद्रव्यैरग्नि हुत्वा तमेव चाग्नि विवाहसाक्ष्य आधाय । साक्षिणं च कृत्वेत्यर्थः । वधूवरौ संगमयांचकार योजयामास ||२०||
अन्वयः—तत्र अर्चितः अग्निकल्पः भोजपतेः पुरोधा : आज्यादिभिः अग्नि हुत्वा तमेव च विवाहसाक्ष्ये आधाय वधूवरौ संगमयाञ्चकार ।
"
व्याख्या- - तत्र - भोजसद्मनि अर्चितः पूजित: अग्नेः = वह्नेः कल्पः = ईषदसदृश:, इति अग्निकल्पः भोजानां पतिः भोजपति : = भोजदेशेश्वरः तस्य भोजपते: पुरः = अग्रे धीयते सर्वकार्येष्विति पुरोधाः पुरोहितः, आज्यादिभि: -हवनीयद्रव्यैः अग्नि = वह्नि, हुत्वा =संभोज्य, सन्तर्प्यत्यर्थः, तमेव = अग्निमेव विवाहस्य = पाणिग्रहणस्य साक्ष्यं = साक्षाद् द्रष्टृत्वं तस्मिन् विवाहसाक्ष्ये, आधाय = निधाय वधूः नवोढा च वर:=जामाता चेति तौ वधूवरौ संगमयाञ्चकार = संयोजयामास विवाहविधि कारयामासेत्यर्थ: । पतिपत्नीत्वेन संगमयामासेति यावत् ।
समासः - भोजानां पति: भोजपतिस्तस्य भोजपतेः । ईषदून: अग्नि : अग्निकल्प: । विवाहस्य साक्ष्यं तस्मिन् विवाहसाक्ष्ये । पुरो धीयते इति पुरोधाः । वधूश्च वरश्चेति वधूवरौ, तौ ।