________________
रघुवंशमहाकाव्ये हिन्दी-नगर की स्त्रियों के मुख से इस प्रकार की कानों को प्रिय लगने वाली कथाओं को सुनते हुए कुमार अज मंगल की सामग्रियों की सजावट से जगमगाते अपने संबन्धी भोज के राजभवन पहुँच गये ।।१६।।
ततोऽवतीर्याशु करेणुकायाः स कामरूपेश्वरदत्तहस्तः । वैदर्भनिर्दिष्टमथो विवेश नारीमनांसीव चतुष्कमन्तः ।।१७।।
संजी०-तत इति । ततोऽनन्तरं करेणुकाया हस्तिन्याः सकाशादाशु शीघ्रमवतीर्य । कामरूपेश्वरे दत्तो हस्तो येन सोऽजः । अथो अनन्तरं वैदर्भण निर्दिष्टं प्रदर्शितमन्तश्चतुष्कं चत्वरम् । नारीणां मनांसीव विवेश ॥१७॥
अन्वयः-तत: करेणुकायाः आशु अवतीर्य कामरूपेश्वरदत्तहस्तः सः अथ वैदर्भनिदिष्टम् अन्तः चतुष्कम नारीणां मनांसि इव विवेश।
व्याख्या-ततः = अनन्तरम् करेणुकायाः-हस्तिन्याः आशु = शीव्रम् अवतीर्य = पृथिव्यामागत्य कामरूपस्य = देशविशेषस्य कामाख्यास्थानस्येत्यर्थः, ईश्वरः स्वामी, तस्मिन् दत्तः प्रदत्त : अवलम्बित इत्यर्थः, हस्तः कर: येन स कामरूपेश्वरदत्तहस्तः सः = अजः अथ पश्चात् विदर्भाणां राजा वैदर्भस्तेन वैदर्भण भोजेन निर्दिष्टम् = दर्शितम् अन्तश्चतुष्कम् = आभ्यन्तरचत्वरम् नारीणां = वनितानाम् मनांसि = चित्तानि इव=यथा विवेश = प्रविष्टवान् ।
समास:-कामरूपस्य ईश्वर: कामरूपेश्वरस्तस्मिन दत्त. हस्तः येन स कामरूपेश्वरदत्तहस्तः । विदर्भाणां राजा वैदर्भः तेन निर्दिष्टम्, तत् वैदर्भनिर्दिष्टम् ।
हिन्दी-भोज के घर पहुँच कर हथिनी से झटपट नीचे उतरकर तथा कामरूप (आसाम ) के राजा के हाथ में हाथ देकर, वह अज भोज राजा के बताए हुए भीतरी चौक में ऐसा प्रविष्ट हुआ, मानो वहाँ की स्त्रियों के मन में भी बस गया हो ॥१७॥
महार्हसिंहासनसंस्थितोऽसौ सरत्नमध्यं मधपर्कमिश्रम । भोजोपनीतं च दुकलयुग्मं जग्राह साधं वनिताकटाक्षौः ।।१८।।
संजी०--महाहेति । महार्हसिंहासने संस्थितोऽसावजः । भोजेनोपनीतम् । रत्नैः सहितं सरत्नम् । मधुपर्क मिश्रमर्थ्य पूजासाधनद्रव्यं दुक्लयोः क्षौमयोर्युग्मं च वनिताकटाक्षैरन्यस्त्रीणामपाङ्गदर्शनैः सार्धम् । जग्राह गृहीतवान् ॥१८॥