________________
सप्तमः सर्ग:
९७
समास:-रतिश्च स्मरश्चेति रतिस्मरौ । इयं च अयञ्च, इमौ । आत्मनः प्रतिरूप आत्मप्रतिरूपः तम् । अन्यत् जन्म जन्मान्तरम्, जन्मान्तरे संगतिः जन्मान्तरसंगतिस्तां जानातीति जन्मान्तरसंगतिज्ञम् ।
हिन्दी-रति और कामदेव ही ये दोनों ( अज इन्दुमती) पतिपत्नी रूप से उत्पन्न हुए हैं इसलिए कि इस बाला ने हजारों राजाओं के बीच में भी अपने समान अज को ही प्राप्त किया है। क्योंकि मन तो पूर्व जन्म के सम्बन्ध को जानता है ॥१५॥
इत्युद्गताः पौरवधूमुखेभ्य: शृण्वन्कथाः श्रोत्रसुखाः कुमारः। उद्भासितं मङ्गलसंविधाभि: संबन्धिनः सद्म समाससाद ॥१६॥
संजी०-इतीति। इति 'स्थाने वृत्तता' (७।१३) इत्याधुक्तप्रकारेण पौरवधूमुखेभ्य उद्गता उत्पन्नाः श्रोत्रयोः सुखा मधुरा: । 'सुख' शब्दो विशेष्यनिघ्नः । 'पापपुण्यसुखादि च' इत्यमरः । कथा गिरः शृण्वन् कु मारोऽजो मङ्गलसंविधाभिमङ्गलरचनाभिरुद्भासितं शोभितं संबन्धिनः कन्यादायिनः सम गृहं समाससाद प्राप ॥१६॥ ___ अन्वयः-इति पौरवधूमुखेभ्यः उद्गताः श्रोत्रसुखा: कथाः शृण्वन् कुमारः मंगलसंविधाभिः उद्भासितम् संबन्धिनः सम समाससाद ।।
व्याख्या-इति = स्थाने वृतेत्यादिश्लोकत्रयोक्तप्रकारेण पुरे भवाः पौराः, पौराणां=नागरिकाणां वध्वः = स्त्रिगस्तासां मुखानि = आननानि तेभ्यः, पौरवधूमुखेभ्यः उद्गता:= निर्गताः = उत्पन्नाः श्रोत्रयोः = कर्णयोः सुखं कुर्वन्तीत्यर्थे, सुखयन्तीति सुखास्ता: सुखाः = मधुराः कथाः=गिरः आलापानित्यर्थः श्रृण्वन् = आकर्णयन् कुमारयति = क्रीडति इति कुमारः, कौ = पृथिव्यां मारयति दुष्टानीति वा कुमारः = रघुपुत्रोऽजः मंगति = गच्छति दुरदृष्ट मनेन अस्माद्वा इति मंगलम् । मंगलस्य कल्याणस्य शुभस्येत्यर्थः संविधाः = रचनाः, ताभिः मंगलसंविधाभिः, उद्भासितम् = प्रकाशितं = सुशोभितम्, संबन्धिनः कन्याप्रदातुः भोजस्येत्यर्थः सन = गृहं समाससाद = प्राप । भोजप्रासादं प्राप्तवानित्यर्थः ।
समास:-पुरे भवाः पौरास्तेषां वध्वस्तासां मुखानि पौरवधूमुखानि, तेभ्यः पौरवधूमुखेभ्यः । श्रोत्रयोः सुखा: श्रोत्रसुखाः ताः श्रोत्रसुखाः । मंगलस्य संविधास्ताभिः मंगलसंविधाभिः ।