________________
९६
रघुवंशमहाकाव्ये हिन्दी-अभिलाषा के योग्य शोभा वाले अर्थात् अतीव सुन्दर इस ( अज इन्दुमती ) जोड़े को आपस में यदि न मिलाता तो ब्रह्मा का इन दोनों को इतना सुन्दर बनाने का परिश्रम ही व्यर्थ जाता। अर्थात् इनको मिलाकर ब्रह्मा जी से बहुत ही उचित किया गया ॥१४॥
रतिस्मरौ नूनमिमावभूतां राज्ञां सहस्रेषु तथा हि बाला। गतेयमात्मप्रतिरूपमेव मनो हि जन्मान्तरसंगतिज्ञम् ।।१५।।
संजी०-रतीति । रतिस्मरौ यौ नित्यसहचरावित्यभिप्रायः । नूनं तावेवेयं चायं चेमी दंपती। अभूताम् । एतद्रूपेणोत्पन्नौ । कुतः ? तथा हि-इयं बाला राज्ञां सहस्रेषु राजसहस्रमध्ये । सत्यपि व्यत्यासकरण इति भावः । आत्मप्रतिरूपं स्वतुल्यमेव । 'तुल्यसंकाशनीकाशप्रकाशप्रतिरूपकाः' इति दण्डी। गता प्राप्ता। तदपि कथं जातमत आह–हि यस्मान्मनो जन्मान्तरसंगतिज्ञं भवति । 'तदेवेदम्' इति प्रत्यभिज्ञाभावेऽपि वासनाविशेषवशादनु भूतार्थेषु मनःप्रवृत्ति रस्तीत्युवतम् । जन्मान्तरसाहचर्यमेवात्र प्रवर्तकमिति भावः ।।१५।।
अन्वयः-रतिस्मरौ नूनम् इमौ अभूताम्, तथाहि इयम् बाला राज्ञां सहस्रेषु आत्मप्रतिरूपमेव गता, हि मनः जन्मान्तरसंगतिज्ञम् भवति ।
व्याख्या-रतिः == कामपत्नी च स्मरः = कन्दर्पश्चेति रतिस्मरौ नूनम् = अवश्यम् तावेवेत्यर्थः इयञ्च अयञ्च, इमौ दम्पती=इन्दुमत्यजावित्यर्थः अभूताम् = आस्ताम्, तथाहि = उवतं प्रतिपादयति इयं पुरो दृश्यमाना बाला=इन्दुमती राज्ञां= भूपालानां सहस्र =सहस्रसंख्येषु अर्थात् सहस्रभूपालमध्ये, आत्मनः = स्वस्य प्रतिरूपम्= तुल्यं समानमित्यर्थः, इति आत्मप्रतिरूपमेच गता प्राप्ता, तदपि कथं जातमित्यत आह हि यस्मात् मनः = चित्तम् अन्यत् जन्म जन्मान्तरम्, जन्मान्तरे =पूर्वस्मिन् जन्मनि या संगति: संगमः, इति जन्मान्तरसंगतिः तां जानाति=वेत्ति, इति जन्मान्तरसंगतिज्ञम् भवति = अस्ति, अर्थात् तदेवेदमिति प्रत्यभिज्ञाया अभावेऽपि संस्कारविशेषवशेन जन्मान्तरानुभूतेषु अर्थेषु मनःप्रवृत्तिर्भवतीति । जन्मान्तरसहचारित्वमेवास्मिन्नपि जन्मनि संगमकमिति भावः । संस्कारविशेषवशात् अनुभूतेषु अर्थेषु मनःप्रवृत्तिर्भवति इत्यर्थः ।