________________
सप्तमः सर्गः
९५
समास:-भवः पतयस्तैः भूपतिभिः, अक्ष्णः परे तैः परोक्षः, भोजस्यापत्यं स्त्री भोज्या, पद्ममस्या अस्तीति पद्मा, स्वयं वृणुते (कन्या) यस्मिन् स तं स्वयंवरम्, आत्मना तुल्यस्तम् आत्मतुल्यम् । नाराणाम् अयनः नारायण स्तं नारायणम् ।
हिन्दी-स्त्रियां परस्पर कहती हैं इन्दुमती ने बिना देखे राजाओं से मांग की जाने पर भी (अर्थात् विवाह के लिए राजाओं द्वारा प्रार्थना करने पर भी) स्वयंवर करना ही अच्छा माना, यह उचित ही हुआ । यदि स्वयंवर न करती तो जिस प्रकार लक्ष्मी ने विष्णु को पतिरूप से प्राप्त किया वैसे ही इन्दुमती अपने समान सुन्दर पति को कैसे प्राप्त करती। नहीं ही प्राप्त कर पाती ॥१३॥
परस्परेण स्पृहणीयशोभं न चेदिदं द्वन्द्वमयोजयिष्यत् । अस्मिन्द्वये रूपविधानयत्नः पत्युः प्रजानां वितथोऽभविष्यत् ॥१४॥
संजी०-परस्परेणेति । स्पृहणीयशोभं सर्वाशास्यसौन्दर्यमिदं द्वन्द्वं मिथुनम् । 'द्वन्द्वं रहस्य-' (पा. ८।१।१५ ) इत्यादिना निपातः । परस्परेण नायोजयिष्यच्चेत् । न योजयेद्यदि तहि प्रजानां पत्युविधातुरस्मिन्द्वये द्वन्द्वे रूपविधानयत्नः सौन्दर्यनिर्माणप्रयासो वितथो विफलोऽभविष्यत् । एतादृशानुरूपस्त्रीपुंसान्तराभावादिति भावः। 'लिङनिमित्ते लुङक्रियातिपत्तौ' (पा. ३।३।१३९) इति लुङ् । 'कुतश्चित्कारणवैगुण्यात्क्रियाया अनभिनिष्पत्तिः क्रियातिपत्तिः' इति वृत्तिकारः ॥१४॥
अन्वयः-स्पृहणीयशोभम् इदं द्वन्द्वं परस्परेण न अयोजयिष्यत् चेत् (तर्हि) प्रजानां पत्यु: अस्मिन् द्वये रूपविधानयत्नः वितथ: अभविष्यत् । ।
व्याख्या-स्पृहणीया = अभिलाषयोग्या, सर्वैर्वाञ्छनीयेत्यर्थः, शोभा= सौन्दर्य यस्य तत् स्पृहणीयशोभम्, इदं = परिदृश्यमानम् द्वन्द्वं = मिथुनम् कन्यावरयोः युगलम्, परस्परेण = अन्योन्येन न अयोजयिष्यत् = नामेलयिष्यत् चेत् = यदि (तहिं) प्रजानां = लोकानां पत्युः = ब्रह्मणः = विधातुः, अस्मिन् द्वये = अस्मिन् युगले रूपस्य =सौन्दर्यस्य विधानं = निर्माणमिति रूपविधानं तस्मिन् यत्नः= प्रयासः रूपविधानयत्नः, वितथ: = विफल: = व्यर्थः अभविष्यत् = समपत्स्यत।
समास:-स्पृहणीया शोभा यस्य तत् स्पहणीयशोभम्, प्रकर्षेण जायन्ते इति प्रजास्तासां प्रजानाम्, रूपस्य विधानमिति रूपविधानं तत्र यत्नः रूपविधानयत्नः।