________________
प्रथमः सर्गः वाच्य-तदन्वये शुद्धिमत्तरेण दिलीपेनेति राजेन्दुना क्षीरनिधी, इन्दुनेव प्रसूतेन अभावि।
व्याख्या-शुद्धिरस्यास्तीति शुद्धिमान, तस्मिन् शुद्घिमति = दोषरहिते, तस्य = मनोः, अन्वयः= वंशस्तस्मिन् तदन्वये, अतिशयेन शुद्धिमान्, इति शुद्धिमत्तरः= अतीव पवित्रः= निष्कलंक इत्यर्थः, दिलीपः= दिलीपनाम्ना प्रसिद्धः, राजा इन्दुरिव, इति राजेन्दुः नपचन्द्रः = राजश्रेष्ठ इत्यर्थः, निधीयतेऽस्मिन्निति निषिः, क्षीरस्य = दुग्धस्य, निधिः= आकर इति क्षीरनिधिः, तस्मिन् क्षीरनिधी, इन्दुः= चन्द्रः, इव = यथा, प्रसूतः जातः। __समा०-शुद्धिः अस्य अस्ति इति शुद्धिमान् तस्मिन् शुद्धिमति, तस्य अन्वयः तदन्वयः, तस्मिन् तदन्वये, अतिशयेन शुद्धिमान् इति शुद्धिमत्तरः, राजा इन्दुः इव इति राजेन्दुः, निधीयते अस्मिन् इति निधिः, क्षीरस्य निधिः क्षीरनिधिः, तस्मिन् क्षीरनिधी।
अभि०--यथा क्षीरसागरे चन्द्रो जातस्तथैव मनुवंशे दिलीपो जातः ।
हिन्दी-उन्हीं सूर्यपुत्र मन के उज्वल वंश में अत्यन्त पवित्र चरित्र वाले, राजाओं में श्रेष्ठ, राजा दिलीप वैसे ही पैदा हुए, जैसे क्षीरसागर में चन्द्रमा॥ १२॥ 'व्यूढ-' इत्यादित्रिभिः श्लोकैदिलीपं विशिनष्टि--
व्यूढोरस्को वृषस्कन्धः शालप्राशुर्महाभुजः ।
आत्मकर्मक्षम देहं क्षात्रो धर्म इवाश्रितः ॥१३॥ सजोविनी-व्यूढं विपुलमुरो यस्य स व्यूढोरस्कः । 'उरःप्रभृतिभ्यः कप्' इति कपप्रत्ययः 'व्यढं विपुलं भद्रं स्फारं समं वसिष्ठं च' इति यादवः । षस्य स्कन्ध इव स्कन्धो यस्य स तथा । 'सप्तम्युपमान०' इत्यादिनोत्तरपदलोपी बहव्रीहिः । शालो वृक्ष इव प्रांशुरुन्नतः शालप्रांशुः । 'प्राकारवृक्षयोः शाल: शाल: सर्बतरुः स्मृतः' इति यादवः । 'उच्चप्रांशून्नतोदनोच्छितास्तुङ्ग' इत्यमरः । महा. भुजो महाबाहुः । आत्मकर्मक्षमं स्वव्यापारानुरूपं देहमाश्रितः प्राप्तः क्षात्रः क्षत्रसंबन्धी धर्म इव स्थितः । मूर्तिमान्पराक्रम इव स्थित इत्युत्प्रेक्षा ॥१३॥
अन्वयः--व्यूढोरस्कः, वृषस्कन्धः, शालप्रांशुः, महाभुजः, आत्मकर्मक्षम, बेहम्, आश्रितः, क्षात्रः, धर्मः, इव, स्थितः ।