________________
रघुवंशमहाकाव्ये वाच्य०--ट्यूढोरस्केन वृषस्कन्धेन शालप्रांशुना महाभुजेन देहमाश्रितेन क्षात्रेण धर्मेणेव अस्थायि ।
व्याख्या--व्यूढं = विपुलम्, उर:= वक्षस्थलं यस्य स व्यूढोरस्कः, वृषस्य = बलीवर्दस्य स्कन्धः, इत्र, स्कन्धः= अंसः, यस्य स वृषस्कन्धः स्कन्धो भुजशिरों सः' इत्यमरः, शाल:= शालवृक्षः, इव, प्रांशुः = उन्नतः, इति शालप्रांशुः, महान्तौ= दीर्घा, भुषो= पाहू यस्य स महाभुजः, आत्मनः = स्वस्य, कर्म = व्यापारः, तत्र क्षमतदनुरूपमिति, आत्मकर्मक्षम, देहं = शरीरम्, आश्रितः=प्राप्तः, क्षत्रस्यायं क्षात्र:=क्षत्रियसम्बन्धी,धर्मः= स्वभाव:=पराक्रम इत्यर्थः, इव = यथा 'स्थितः।
समा०--व्यूढम् उरः यस्य सः व्यढोरस्कः, वृषस्य स्कन्धः इव स्कन्धा यस्य सः वृषस्कन्धः, शालः इव प्रांशुः शालप्रांशुः, महान्ती भुजौ यस्य सः महाभुजः, आत्मनः कर्म इति आस्मकर्म, आत्मकर्मणि क्षमम् आत्मकर्मक्षमम्, तत् तथोक्तम्, क्षत्रस्य अयम् क्षात्रः।
अभि०--मूर्तिमान् क्षत्रियधर्म इव विशालवधाः, दीर्घबाहुः, उन्नतो दिलीप: एवं भूतः 'स्थितः'।
हिन्दी--चौड़ी छाती, बैल के समान ऊंचे भारी कन्धों वाले शालवृक्ष के समान उन्नत (ऊंचे) और दीर्घ भुजा वाले (फिर भी) अपने कार्य करने में समर्थ शरीर को धारण किएं, राजा दिलीप ऐसे जान पड़ते थे, मानो शरीरधारी क्षत्रियों का वीरतारूपी धर्म हो॥ १३॥
सर्वातिरिक्तसारेण सर्वतेजोभिभाविना ।
स्थितः सर्वोन्नतेनोवीं क्रान्त्वा मेरुरिवात्मना ॥१४॥ सञ्जीविनी--सर्वातिरिक्तसारेण सर्वेभ्यो भूतेभ्योऽधिकबलेन । 'सारो बले स्थिरांशे च' इत्यमरः । सर्वाणि भूतानि तेजसाभिभवतीति सर्वतेजोभिभावी तेन । सर्वेभ्य उन्नतेनात्मना शरीरेण 'आत्मा देहे धृतो जीवे स्वभावे परमात्मनि' इति विश्वः । मेरुरिव । उर्वी कान्स्वाक्रम्य स्थितः । मेरावपि विशेषणानि तुल्यानि 'अष्टाभिश्च सुरेन्द्राणां मात्राभिनिर्मितो नपः। तस्मादभिभवत्येष सर्वभूतानि तेजसा ॥' इति मनुवचनाद्राज्ञः सर्वतेजोभिभावित्वं ज्ञेयम् ॥१४॥
अन्धयः--सर्वातिरिक्तसारेण, सर्वतेजोभिभाविना, सर्वोन्नतेन, मेरः, इव, उर्वो, कान्वा, "स्थितः" एवं भूतो विलोपः ।