________________
१४
रघुवंशमहाकाव्ये सञ्जीविनी--मनस ईषिणो मनीषिणो धीराः। विद्वांस इति यावत् । षोदरादित्वात्साधुः । तेषां माननीयः पूज्यः । छन्दसां वेदानाम् । 'छन्दः पद्ये च वेदे च' इति विश्वः । प्रणव ओंकार इव । महीं क्षियन्तीशत इति महीक्षितः क्षितीश्वराः । क्षिधातोरेश्वर्यार्थाविवप् तुगागमश्च । तेषामाद्य आदिभूतः । विवस्वतः सूर्यस्यापत्यं पुमान्ववस्वतो नाम वैवस्वत इति प्रसिद्धो मनुरासीत् ॥११॥
अन्वयः--मनीषिणां, माननीयः, छन्दसां प्रणवः, इव, महीक्षिताम्, आद्यः, वैवस्वतः, नाम मनः, मासीत् ।
वाच्य०-मनीषिणां माननीयेन छन्दसां प्रणवेनेव महीक्षितामाग्रेन वैवस्वतेन वाम्ना मनुनाऽभूयत।
व्याल्या-मनसः, ईषिणः मनीषिणस्तेषां मनीषिणां= विदुषां, माननीयः= पूज्यः, छन्दन्तीति छन्दांसि तेषां छन्दसां= वेदानां, प्रणवः = ॐकारः, इव = यथा, महीं = पृथिवीं, क्षियन्ति = ईशते, इति महीक्षितस्तेषां महीक्षितां = क्षितीश्वराणाम, आद्यः = प्रथमः, आदिभूत इत्यर्थः । विवस्वतः= सूर्यस्य, अपत्यं पुमान् वैवस्वतः, नाम =वैवस्वतनामा, मनुः=प्रथममनुः, आसीत् = बभूव ।
समा०-मनसः ईषिणः मनीषिण.,तेषाम् मनीषिणाम् । छन्दन्ति इति छन्दांसि तेषाम् छन्दसाम्। महीम् क्षियन्ति इति महीक्षितः, तेषाम् महीक्षिताम् । विवस्वतः अपत्यम् पुमान् वैवस्वतः। __ अभि०--सूर्यपुत्रः, वैवस्वतो मनुः, वेदानां प्रणव इव राज्ञामाद्यः, आसीत् ।
हिन्दी--जिस प्रकार वेदों में सर्व प्रथम ॐकार है उसी प्रकार राजाओं में सर्वप्रथम विद्वानों के पूज्य, सूर्यपुत्र वैवस्वत नाम के मनु हुए ॥११॥
___ तदन्वये शुद्धिमति प्रसूतः शुद्धिमत्तरः।
दिलीप इति राजेन्दुरिन्दुः क्षीरनिवाविव ॥१२॥ सञ्जीविनी--शुद्धिरस्यास्तीति शुद्धिमान् । तस्मिशुद्धिमति। तदन्वये तस्य मनोरन्वये वंशे। 'अन्ववायोऽन्वयो वंशो गोत्रं चाभिजनं कुलम्' इति हलायुधः । अतिशयेन शुद्धिमाशुद्धिमत्तरः । 'द्विवचनविभज्योप०' इत्यादिना समासः । क्षीरनिधाविन्दुरिव प्रसूतो जातः ॥१२॥
अन्वयः-शुद्धिमति, तदन्वये, शुद्धिमत्तरः, दिलीपः, इति, राजेन्दुः, क्षीरनिधी, इन्दुः, इव, प्रसूतः।