________________
प्रथमः सर्गः
युक्त रघुवंशियों के कुल का वर्णन करूँगा, "इसलिये कि" उनके जन्म से पवित्र आदि गणों ने मेरे कान में आकर प्रेरणा की है ॥६॥ संप्रति स्वप्रबन्धपरीक्षार्थ सतः प्रार्थयते--
तं सन्तः श्रोतुमर्हन्ति सदसद्वयक्तिहेतवः ।
हेम्नः संलक्ष्यते ह्यग्नौ विशुद्धिः श्यामिकापि वा ॥१०॥ सञ्जीविनी--तं रघुवंशाख्यं प्रबन्धं सदसतोगुणदोषयोव्यंक्तेर्हेतवः कर्तारः सन्तः श्रोतुमर्हन्ति । तथाहि । हेम्नो विशुद्धिनिर्दोषस्वरूपं श्यामिकापि लोहान्सरसंसर्गात्मको दोषोऽपि वाग्नी संलक्ष्यते । नान्यत्र । तद्वदत्रापि सन्त एव गुणदोषविवेकाधिकारिणो नान्य इति भावः ॥१०॥
अन्वयः-सदसद्व्यक्तिहेतवः, सन्तः, तं, श्रोतुम, अर्हन्ति, हि, हेम्नः, विशुद्धिः, श्यामिका, अपि वा, अग्नी, संलक्ष्यते ।
वाच्य०--सदसद्व्यक्तिहेतुभिः, सद्भिः, स श्रोतुमीते, हि हेम्नो विशुद्धि श्यामिकामपि वा, अग्नी संलक्षयन्ति सन्तः ।
व्याल्या--सत् = गुणः, असत् = दोषश्चेति सदसती तयोर्व्यक्तिः=विवेकस्तस्या, हेतवः= कर्तारः, परीक्षका इत्यर्थः इति सदसद्व्यक्तिहेतवः, सन्तः= सज्जनाः, श्रोतुम् = आकर्णयितुम्, अर्हन्ति =योग्या भवन्ति, हि = तथाहि, हेम्नः= सुवर्णस्य, विशुद्धिा=निर्दोषस्वरूपं, श्यामिका= सदोषता, अपि वा= अथवा, अग्नी- वह्नी, संलक्ष्यते=ज्ञायते, प्रतीयत इत्यर्थः। नान्यत्रेति भावः।
समा०--सत् च असत् च सदसती, सदसतोः व्यक्तिः सदसद्वयक्तिः , सदसद्वयक्तेः हेतवः सदसद्वयक्तिहेतवः ।
अभि०-यथा सुवर्णस्य सदोषत्वं निर्दोषत्वं वा वह्नी, एव ज्ञायते, एवमत्र काव्येऽपि गुणदोषविवेककरणाय सन्त एवाधिकारिणः, नत्वन्ये ।
हिन्दी--भले बुरे की पहचान करने वाले विद्वान् ही इस काव्य को सुनने के अधिकारी हैं, क्योंकि सोने का खोटापन अथवा खरापन अग्नि में डालने पर ही जाना जाता है ॥१०॥ वयं वस्तूपक्षिपतिवैवस्वतो मनुर्नाम माननीयो मनीषिणाम् । आसीन्महीक्षितामाद्यः प्रणवश्छन्दसामिव ॥ ११ ॥