________________
रघुवंशमहाकाव्ये के समान वन में रह कर तपस्या करते थे, ( अर्थात् वानप्रस्थाश्रम का पालन करते थे ) जो अन्त समय परमात्मा का ध्यान करते हुए शरीर त्याग करते थे ॥८॥
रघूणामन्वयं वक्ष्ये तनुवाग्विभवोऽपि सन् । तद्गुणैः कर्णमागत्य चापलाय प्रचोदितः ॥६॥
सञ्जीविनी--सोऽहं लब्धप्रवेशः । तनुवाग्विभवोऽपि स्वल्पवाणीप्रसारोऽपि सन् । तेषां रघूणां गुणस्तद्गुणैः। आजन्मशुद्धयादिभिः कर्तृभिः कणं मम श्रोत्रमागत्य चापलाय चापलं चपलकर्माविमश्यकरणरूपं कर्तुम् । युवादित्वात्कर्मण्यण् । 'क्रियार्थोपपदस्य च कर्मणि स्थानिनः" इत्यनेन चतुर्थी । प्रचोदितः प्रेरितः सन् । रघूणामन्वयं तद्विषयप्रबन्धं वक्ष्ये ॥ ९॥ कुलकम् ॥
अन्वयः--"सः, अहम्" तनुवाविभवोऽपि, सन्, तद्गुणः, कर्णमागत्य, चापलाय, प्रचोदितः, सन्, रघूणाम्, अन्वयं, वक्ष्ये। ( इति पूर्वोक्तपञ्चश्लोक: कुलकम् ) ___ वाच्यतेन मया तनुवाग्विभवेनापि, तद्गुणः कर्णमागत्य चापलाय प्रचोदितेन “सता" रघूणामन्वयो वक्ष्यते ।
व्याख्या-स:=पूर्वोक्तः, अहम् = कालिदासः= लब्धप्रवेश इत्यर्थः, तन:स्वल्पः, वाचः=वाण्याः, विभवःप्रसारो यस्य सः, तनुवाग्विभव। अपि %= सन्, तेणां= रघूणां, गुणः = आजन्मशुद्धयादिभिः, “कर्तृभिः" कणं = श्रोत्रम्, आगत्य = प्राप्य, चपलस्य भावः कर्म वा चापलं = चाञ्चल्यम्, तस्म = चापलाय, अविचार्य कार्यकरणायेत्यर्थः, प्रचोदितः=प्रेरितः, "सन्" रघुणां= रघु. कुलोद्भवानाम्, अन्वयं = वंश, वक्ष्ये कययिष्ये ।
समा०--वाचां विभवः वाग्विभवः, तनु: वाग्विभवः यस्य सः तनुवाग्विभवः। तेषाम् गुणाः इति तद्गुणाःतः तद्गुणः। चपलस्य भावा कम वा चापलम् तस्म, चापलाय।
अभि०-रघुकुलोत्पन्नानां राज्ञाम्, आजन्मशुद्धयादिगुणः, मम कर्णमागत्य प्रेरितोऽहं रघुवंशवर्णनं करिष्यामि, नतु स्वबुद्धिप्रभावेण ।।
हिन्दी-यद्यपि मेरी वाणी की सामर्थ्य अल्प है, फिर भी मैं पूर्वोक्त गुणों से