________________
प्रथमः सर्गः
इति विश्वः । संघातार्थेऽत्र "वृद्धाच्छः" इति वक्तव्यात्सामूहिको वुन् । तस्मिन्वार्ट के वयसि मुनीनां वृत्तिरिव वृत्तिर्येषां तेषाम् एतेन वानप्रस्थाश्रमो विवक्षितः। अन्ते शरीरत्यागकाले योगेन परमात्मध्यानेन । 'योगः संनहनोपायध्यानसंगतियुक्तिषु'। इत्यमरः । तनुं देहं त्यजन्तीति तनुश्यजां देहत्यागिनाम् । 'कायो देहः क्लीबपुंसोः स्त्रियां मूर्तिस्तनुस्तनूः' इत्यमरः । 'अन्येभ्योऽपि दृश्यते” इति क्विप् । एतेन भिक्ष्वाश्रमो विवक्षितः ॥८॥
अन्वयः-शेषवे. अभ्यस्तविधानां, यौवने, विषयषिणा, वार्षके, मुनिवृत्तीनाम्, अन्ते, योगेन, तनुत्यजा, 'रघूणामन्वयं वक्ष्ये।
व्याख्या-शिशोः भावः शंशवं,तस्मिन् शैशवे = बाल्ये, अभ्यस्ताः= पठिताः, विद्याः= शास्त्राणि, यस्ते, तेषामभ्यस्तविद्यानाम्, यूनो भावः, यौवनं तस्मिन् यौवने तारुण्ये, विषयं =भोगविलासम् इच्छन्ति अभिलषन्ति, इति विषयषिणस्तेषां विषयेषिणां तारुण्ये, गृहस्थाश्रमिण इत्यर्थः । वृद्धस्य भावो वाधकं तस्मिन्, वार्धके = वृद्धत्वे, मन्तारः= वेदशास्त्रार्थतत्वावगन्तारः, मुनयस्तेषां वृत्तिरिव वृत्तिः= वर्तनम् = आचार इत्यर्थः, येषां ते तेषां मुनिवृत्तीनां वानप्रस्थाश्रमिणामित्यर्थः, अन्ते = शरीरत्यागसमये, मरणकाले इत्यर्थः, योगेन =चित्तवृत्तिनिरोधेन, भगवद्ध्यानेनेत्यर्थः, तनु शरीरं त्यजन्ति = मुञ्चन्तीति तनुज्यजस्तेषां तनुत्यजाम्, रघणामन्वयमिति संबन्ध।।
समा०-शिशोः भावः शैशवम्, तस्मिन् शैशवे, अभ्यस्ताः विद्याः यः ते अभ्यस्तविद्याः तेषाम् अभ्यस्तविद्यानाम्, यूनः भावः यौवनम्, तस्मिन् यौवने, विषयम् इच्छन्ति इति विषयैषिणः, तेषाम् विषयषिणाम्, वृद्धस्य भावः वार्चकम्, तस्मिन् वार्द्धके, मन्तार: मुनयः मुनीनाम् वृत्तिः इव वृत्तिः येषाम् ते मुनिवृत्तयः, तेषाम् मुनिवृत्तीनाम्, तनुम् त्यजन्ति इति तनुत्यजः, तेषाम् तनुत्यजाम् ।
अभि-प्रथमे वयसि पूर्णेन ब्रह्मचर्येन सर्वविधविद्याभ्यासं कुर्वन्तः, यौवने. च शास्त्रानुमोदितं गृहस्थसुखमुपभुजानाः, जरायां संप्राप्तायां स्वसुतेभ्यो राज्यं समर्प्य वने तपस्यन्तः, अन्ते च योगाभ्यासेन 'समाधिना' देहत्यागिन: ये रघव आसन् तेषामन्वयं वक्ष्ये ।।
हिन्दी--जो बचपन में ब्रह्मचारी रहकर विद्याभ्यास करते थे, जो जवानी में गृहस्थाश्रम में रह कर विषयों का उपभोग करते थे और बुढ़ापे में मुनियों