________________
रघुवंशमहाकाव्ये 'जाया च गृहिणी गृहम्' इति हलायुधः। मेधृ संगमे' इति धातोणिनिः । एभिविशेषणः परोपकारित्वं यशपरत्वं पितृणां शुद्धत्वं च विवक्षितानि ।
अन्वयः--त्यागाय सम्भूतानां, सत्याय मितभाषिणां, यशसे विजिगीषूणां, प्रजायै, गहमेधिनाम्, "रघणामन्वयं वक्ष्ये"। ___व्याख्या--त्यागः = सत्पात्रे विनियोगस्तस्मै त्यागाय = दानाय, सम्भूतः= सञ्चितः, अर्थः = धनं यस्ते, तेषां सम्भतार्थानां, सत्याय = तथ्याय, मितं = स्वल्पं, भाषन्ते तच्छीला इति मितभाषिणस्तेषां मितभाषिणां, यशसे-कीत्य, विजेतुमिच्छन्ति, विजिगीषन्ति, विजिगीषन्तीति विजिगीषवस्तेषां विजिगीषूणां= विजेतुमिच्छूनां, प्रजायै = सन्तानाय, गृह्णन्ति धान्यादिकमिति गृहाः= दाराः, तः, मेधितुं शीलं येषां ते, तेषां गृहमेधिनां=दारपरिग्रहाणां, नतु कामोपभोगायेत्यर्थः।
समा०-सम्भूतः अर्थः यः ते सम्भतार्था, तेषाम् सम्भृतार्थानाम्, मितम् भाषन्ते तच्छीलाः मितभाषिणः तेषाम् मितभाषिणाम,विजेतुम इच्छन्ति इति विजिगीषन्ति, विजिगीषन्ति इति विजिगीषवः तेषाम् विजिगीषूणाम्, गृह्णन्ति धान्यादिकम् इति गृहाः, गृहः मेधितुम् शीलम् येषाम् ते गृहमेधिनः तेषाम् गृहमेधिनाम् ।
अभि०-दानशीलानां सत्यभाषिणां यशसे विजेतुमिच्छुकानाम् सन्तानाय गृहस्थानां रघृणामन्वयमिति संबन्धः ।
हिन्दी--जो कि सत्पात्र में दान देने के लिये ही धन बटोरते थे, सत्य बोलने के लिये ही कम बोलते थे. और जो अपनी कीति फैलाने के लिये ही विजय करते थे, 'न कि अन्य का राज्य छीनने के लिये जो सन्तान के लिये ही विवाह करते थे, 'न कि भोगविलास के लिये ॥७॥
शैशवेऽभ्यस्तविद्यानां यौवने विषयैषिणाम् । वार्द्धके मुनिवृत्तीनां योगेनान्ते तनुत्यजाम् ॥८॥
सञ्जीविनी-शिशोर्भावः शिवं बाल्यम् । 'प्राणभृज्जातिवयोवचनोद्गात्र.' इत्यम्प्रत्ययः । 'शिशुत्वं शैशवं बाल्यम्' इत्यमरः । तस्मिन्वयस्यभ्यस्तविद्यानाम् । एतेन ब्रह्मचर्याश्रमो विवक्षितः । यूनो भावो यौवनं तारुण्यम् । युवादित्वादण्प्रत्ययः। 'तारुण्यं यौवनं समम्' इत्यमरः । तस्मिन्वयसि विषयैषिणां । भोगाभिलाषिणाम् । एतेन गृहस्थाश्रमो विवक्षितः । वृद्धस्य भावो वार्धकं वृद्धत्वम् । "द्वन्द्वमनोज्ञादिभ्यश्च" इति वुञ्प्रत्ययः । 'वादकं वृद्धसंघाते वृद्धत्वे वृद्धकर्मणि'