________________
प्रथमः सर्गः
व्याख्या-विधिमनतिक्रम्येति यथाविधि, यथाविधि = यथाशास्त्रं, हुताःतपिताः, अग्नयः, यस्ते, तेषां यथाविधिहुताग्मीनाम्, काममनतिक्रम्येति यथाकामं, यथाकामं = यथामिलाषम्, अचिता:=पूजिता सत्कृताः, अथिन:= याचकाः यस्ते, तेषां यथाकामार्चितार्थिनाम्, अपराधमनतिक्रम्येति यथापराधं, यथापराधम् = अपराधानुकलं, दण्डः = दमः, येषां ते, तेषां यथापरापदण्डानाम् 'साहसं तु दमो दण्डः' इत्यमरः। कालमनतिक्रम्येति यथाकालम्, यथाकालं = यथासमयं, प्रबोधिनःप्रबोधनशीलाः= जागरूकास्तेषां यथाकालप्रबोधिनां, "रघूणामन्वयं वक्ष्ये" इत्यग्रिमश्लोकेन संबन्धः ।
समा०-विधिम् अनतिक्रम्य यथाविधि, यथाविधि हुताः अग्नयः यः ते यथाविधि हुताग्नयः तेषाम् यथाविधिहुताग्नीनाम्, कामम् अनतिक्रम्य यथाकामम्, यथाकामम् अचिंता: अर्थिनः यः ते यथाकामार्चितार्थिनः, तेषाम् यथाकामाचितार्थिनाम्, अपराधम् अनतिक्रम्य यथापराधम्, यथापराधम् दण्डः येषाम् ते यथापराधदण्डाः तेषाम् यथापरापदण्डानाम्, कालम् अनतिक्रम्य यथाकालम, यथाकालम् प्रबोधिनः यथाकालप्रबोधिनः तेषाम् यथाकालप्रबोधिनाम् ।
अभि०-शास्त्रोक्तविधिना यज्ञकर्तृणामतिथिपूजकानां दुष्टजनशिक्षकाणां प्रजापालने तलराणां रघूणामिति संबन्धः ।
हिन्दी--जो शास्त्रविधि के अनुसार ही यज्ञ करते थे, जो मांगने वालों को भरपूर दान देते थे, जो दुष्टों को अपराध के अनुसार ही दण्ड देते थे, जो समय पर ही कार्य करते थे ॥६॥
त्यागाय संभृतार्थानां सत्याय मितभाषिणाम् । यशसे विजिगीषूणां प्रजायै गृहमेधिनाम् ॥७॥
सञ्जीविनी--त्यागाय सत्पात्रे विनियोगस्त्यागस्तस्मै । 'त्यागो विहापितं दानम्' इत्यमरः । संभृतार्थानां संचितधनानाम् । न तु दुर्व्यापाराय । सत्याय मितभाषिणां मितभाषणशीलानाम् । न तु पराभवाय । यशसे कीर्तये 'यशः कीर्तिः समज्ञा च' इत्यमरः। विजिगीषूणां विजेतुमिच्छूनाम् । न त्वर्थसंग्रहाय । प्रजाये संतानाय गृहमेधिनां दारपरिग्रहाणाम् । न तु कामोपभोगाय । अत्र 'त्यागाय' इत्यादिषु "चतुर्थी तदर्थार्थ." इत्यादिना तादर्थ्य चतुर्थीसमासविधानज्ञापकाच्चतुर्थी । गृहेर मेंषन्ते संगच्छन्त इति गृहमेधिनः। 'दारेष्वपि गृहाः पुंसि' इत्यमरः ।