________________
रघुवंशमहाकाव्य क्षितीशा इति आसमुद्रक्षितीशास्तेषामासमुद्रक्षितीशानाम, रथस्य = स्यन्दनस्य, वर्त्म = मार्गम इति रथवर्त्म, न =नास्ति, अकं = दुःखं यत्र स नाकः, नाकमभिव्याप्य, इति आनाकम्, आनाकं रथवर्त्म येषां तेषामानाकरथवर्मनाम्, रघूणामन्वयं वक्ष्ये, इत्युत्तरेण पद्येनान्वयः ।
समा०--जन्मनः आ इति आजन्म, आजन्म शुद्धा: आजन्मशुद्धाः तेषाम् आजन्मशुद्धानाम् । फलस्य उदयः फलोदयः, फलोदयम् अभिव्याप्य आफलोदयम, आफलोदयम् कर्म येषां ते आफलोदयकर्माणः, तेषाम् आफलोदयकर्मणाम् । क्षिते: ईशाः क्षितीशाः, समुद्रम् अभिव्याप्य इति आसमुद्रम्, आसमुद्रम् क्षितीशाः इति आसमुद्रक्षिप्तीशाः, तेषाम् आसमुद्रक्षितीशानाम् । रथस्य वर्त्म रथवर्त्म न विद्यते अकम् यत्र स नाकः नाकम् अभिव्याप्य इति आनाकम्, आनाकम् रथवर्म येषाम् ते आनाकरथवनिः , तेषाम् आनाक रथवर्मनाम् । ___ अभि.-मन्दोऽहं कालिदासः वेदोक्तसर्वसंस्कारसम्पन्नानां प्रारब्धान्तगामिनां चक्रवत्तिनामिन्द्र सहचारिणां रघूणामन्वयं वक्ष्ये ।
हिन्दी--मन्दमति मैं कालिदास उन प्रतापी सूर्यवंशियों का वर्णन करूंगा, जिनके संस्कार तथा चरित्र जन्म से लेकर अन्ततक शुद्ध रहे, और जो किसी कार्य को आरम्भ कर, उसे पूरा करके ही छोड़ते थे। जिनका साम्राज्य समुद्र तक फैला था, और जिनके रथ का मार्ग स्वर्ग तक था, अर्थात् पृथिवी से स्वर्ग तक उनके रथ आते जाते थे ॥५॥
यथाविधिहुताग्नीनां यथाकामार्चितार्थिनाम् । यथापराधदण्डानां यथाकालप्रबोधिनाम् ॥६॥
सजीविनी-विधिमनतिक्रम्य यथाविधि । 'यथाऽसादृश्य" इत्यव्ययीभावः। तथा हुतशब्देन सुप्सुपेति समासः । एवं 'यथाकामाचित-' इत्यादीनामपि द्रष्टव्यम् । यथाविधि हुता अग्नयो यस्तेषाम् । यथाकाममभिलाषमनतिक्रम्याचिंताथिनाम् । यथापराधमपराधम् अनतिक्रम्य दण्डो येषां तेषाम् । यथाकालं कालमनतिक्रम्य प्रबोधिनां प्रबोधनशीलानाम् । चतुभिविशेषणर्देवतायजनार्थिसत्कारदण्डधरत्वप्रजापालनसमयजागरूकत्वादीनि विवक्षितानि ॥६॥
अन्वयः--यथाविधि, हुताग्नीनो, यथाकामाचितार्थिनाम्, यथापराषवण्डानां, यथाकालप्रबोषिनाम् "रघूणामन्वयं वक्ये"।