________________
प्रथमः सर्गः
अभि०
10 -- यथा मणिवेधकसूचीविद्धे रत्ने सूत्रस्य गतिः भवति तथैव महर्षि - वाल्मीकिरचितरामायणप्रबन्धद्वारेण, सूर्यवंशेऽस्मिन् मे सञ्चारो भविष्यति ।
हिन्दी - ( किन्तु मुझे एक ही विश्वास है कि ) वाल्मीकि आदि पूर्व कवियों ने सूर्यवंश पर रामायण आदि काव्य लिखकर, वाणी का द्वार पहले ही खोल दिया है । इस लिये उसमें प्रवेश कर जाना, तथा सूर्यवंश का पुनः वर्णन करना, मेरे लिये वैसे ही सरल है जिस प्रकार हीरे की कनी से बिंधे हुए मणि में डोरा पिरोना सरल है ॥ ४ ॥
एवं रघुवंशे लब्धप्रवेशस्तद्वर्णनां प्रतिजानानः 'सोऽहम्' इत्यादिभिः पञ्चभिः श्लोकैः कुलकेनाह—
सोऽहमाजन्मशुद्धानामाफलोदयकर्मणाम् ।
श्रासमुद्र क्षितीशानामानाकरथवर्त्मनाम् ॥ ५ ॥
सञ्जीविनी - सोऽहम् । ‘रघूणामन्वयं वक्ष्ये' इत्युत्तरेण सम्बन्धः । किविधानां रघूणामित्यत्रोत्तराणि विशेषणानि योज्यानि । आ ज़न्मनः जन्मारभ्येत्यर्थः 'आङमर्यादाभिविध्योः' इत्यव्ययीभावः । शुद्धानाम् । सुप्सुपेति समासः । एवमुत्तरत्रापि द्रष्टव्यम् । आजन्मशुद्धानाम् । निषेकादिसर्वसंस्कार संपन्नानामित्यर्थः । आ फलोदयमा फलसिद्धेः कर्म येषां ते तथोक्तास्तेषाम् । प्रारब्धान्तगामिना मित्यर्थः । आसमुद्रं क्षितेरीशानाम् । सार्वभौमाणामित्यर्थः । आनाकं रथवर्त्म येषां तेषाम् । इन्द्रसहचारिणामित्यर्थः । अत्र सर्वत्राङेऽभिविध्यर्थत्वं द्रष्टव्यम् । अन्यथा मर्यादार्थत्वे जन्मादिषु शुद्ध यभावप्रसङ्गात् ॥५॥
अन्वयः - स, अहम्, आजन्मशुद्धानाम् आफलोदयकर्मणाम्, आसमुद्र क्षितीशानाम्, आनाकरथवर्त्मनां "रघूणाम् अग्वयं वक्ष्ये" ।
वाच्य० - तेन मया रघूणामन्वयो वक्ष्यते, 'इति नवमश्लोकस्थपदेन सम्बन्धः' 1 व्याख्या - सः = मन्दः, अहम् = कालिदासः, जन्मनः, आ, इति, आजन्म, = जन्मत आरभ्य शुद्धाः = निषेकादिसम्पूर्ण संस्कारसम्पन्नास्तेषाम्, आजन्म शुद्धानाम्, फलस्य = परिणामस्य, उदय: = सिद्धि । इति फलोदयः फलोदयमभिव्याप्य, इत्याफलोदयम्, आफलोदयं, कर्म = क्रिया उद्योग इति यावत्, येषान्ते तेषामाफलोदयकर्मणाम्, प्रारब्धान्तगामिनामित्यर्थः, क्षितेः = पृथिव्या ईशाः = अधीश्वराः, इति क्षितीशाः समुद्रं = सागरमभिव्याप्य, इति आसमुद्रम्, आसमुद्र