________________
रघुवंशमहाकाव्ये
अभि०-मन्दोऽहं महनीयचरितस्य रघुवंशस्य वर्णने तथैवोपहास्यो भविष्यामि, यथा वामनः पुरुषः, उन्नतपुरुषेण प्राप्ये फले उच्छितबाहुः सन् उपहास्यो भवति ।
हिन्दी--बड़े बड़े कवियों के यश को चाहने वाला मन्दबुद्धि में उसी प्रकार हँसी को प्राप्त होऊँगा, जैसे कि लम्ब मनुष्य के पहुँचने योग्य फल की ओर 'फल तोड़ने के लिये' ऊपर हाथ फैलाए बौना ॥३॥
मन्दश्चेतहि त्यज्यतामयमुद्योग इत्यत आहअथवा कृतवारद्वारे वंशेऽस्मिन्पूर्वसूरिभिः । मणौ वज्रसमुत्कीर्णे सूत्रस्येवास्ति मे गतिः ॥४॥ सञ्जीविनी--अथवा पक्षान्तरे पूर्वैः सूरिभिः कविभिल्मीक्यादिभिः कृतवाग्द्वारे कृतं रामायणादिप्रबन्धरूपा या वाक्सैव द्वारं प्रवेशो यस्य तस्मिन् । अस्मि. न्सूर्यप्रभवे वंशे कुले। जन्मनै कलक्षणः संतानो वंशः। वज्रण मणिवेधकसूचीविशेषेण । 'वज्र वस्त्री कुलिशशस्त्रयोः । मणिवेधे रत्नभेदे' इति केशवः । समुत्कीर्णे विद्ध मणौ रत्ने सूत्रस्यैव मे मम गतिः संचारोऽस्ति । वर्णनीये रघुवंशे मम वाक्प्रसरोऽस्तीत्यर्थः ।।४॥
अन्वयः--अथवा, पूर्वसूरिभिः, कृतवारद्वारे, अस्मिन्, वंश, वज्रसमुत्कीणे, मणो, सूत्रस्य, इव, मे, गतिः, मस्ति ।
वाच्य० - अथवा अस्मिन्, वंशे, मणौ सूत्रस्येव मे गत्या भूयते ।
व्याख्या--अथवा=पक्षान्तरे, पूर्व प्रथमे च ते सूरयः= कविवाल्मी. क्यादयः, तैः पूर्वसूरिभिः, वक्तीति वाक, वागेव द्वारं, वारद्वार, कृतं = विहितं, वाग्द्वारं यस्य स कृतवारद्वारस्तस्मिन् कृतवारद्वारे= रचितरामायणरूपप्रवेशे अस्मिन् = सूर्यप्रभवे वंशे, वज्रेण = मणिवेधक सूची विशेषेण, समुत्कीर्णः= विद्धस्तस्मिन्, वज्रसमुत्कोणे, मणी= रत्ने, सूत्रस्य = तन्तोः, इव = यथा, मे= मम, गतिः = सञ्चारः, अस्ति = वर्तते । वर्णनीयेऽस्मिन् सूर्यप्रभवे रघुवंशे मम वाणीप्रस रोऽस्ति ।
समा०--पूर्वे च ते सूरयः पूर्वसूरयः तः पूर्वसूरिभिः, वक्ति इति वाक, वाक् एव द्वारम् वाग्द्वारम्, कृतम् वाग्द्वारम् यस्य सः कृतवाग्द्वारः, तस्मिन् कृतवारद्वारे, वज्रेण समुत्कीर्णः वज्रसमुत्कीर्णः तस्मिन् वज्रसमुत्कीर्णे।