________________
प्रथमः सर्गः हिन्दी-कहां तो सूर्य से उत्पन्न हुआ वह तेजस्वी वंश, और कहाँ मन्दबुद्धि मैं ? ( अर्थात् इस बात को मैं जानता हूँ कि पराक्रमी प्रभावशाली रघु के वंश का वर्णन करने में मैं सर्वथा अयोग्य हूँ फिर भी मेरी मूर्खता है कि) मैं उसी तरह इसे पार करना चाहता हूँ जैसे कोई छोटी-सी डोंगी से अपार समुद्र को पार करने की इच्छा कर रहा हो ॥२॥
मन्दः कवियशःप्रार्थी गमिष्याम्युपहास्यताम् ।
प्रांशुलभ्ये फले लोभादुद्दाहुरिव वामनः ॥ ३ ॥ सजीविनी-किं च मन्दो मूढः । 'मूढाल्पापदुनिर्भाग्या मन्दाः स्युः' इत्यमरः। तथापि कवियशःप्रार्थी । कवीनां यशः काव्यनिर्माणन जातं तत्प्रार्थना. शीलोऽहं प्रांशुनोन्नतपुरुषेण लभ्ये प्राप्ये फले फलविषये लोभादुद्वाहुः फलग्रहणायोच्छितहस्तो वामनः खर्व इव । 'खो ह्रस्वश्च वामनः' इत्यमरः । उपहास्यताम. पहासविषयताम् । “ऋहलोर्ण्यत्" इति ण्यत्प्रत्ययः । गमिष्यामि प्राप्स्यामि ।।३॥
अन्वयः--मन्दः, "तथापि" कवियशःप्रार्थी, "अहं" प्रांशुलभ्ये, फले, लोमात, उदाहुः, वामनः, इव, उपहास्यता, गमिष्यामि।
वाच्य०--मन्देन कवियशःप्रार्थिना "मया" प्रांशुलभ्ये फले, लोभादुद्वाहुना वामनेनेव, उपहास्यता गंस्यते ।
व्याख्या--"किञ्च" मन्दः=-मूढः, मूर्ख इत्यर्थः,"तथापि"कवयन्तीति कवयः, कविताकर्तारस्तेषां, यशः = काव्यनिर्माणेन जातमितिकवियशः, तत् प्रार्थयितुं - काङक्षितुं शीलमस्येति कवियशःप्रार्थी, "अहम्" प्रांशुना= उन्नतपुरुषेण, लभ्यं = प्राप्यं, तस्मिन् प्रांशुलभ्ये, फले = आम्रादिफलविषये, लोभात् = फललिप्सया, उच्छितौ= ऊध्वंकृतो, बाहू = भुजौ, यस्य स उद्बाहुः, वामनः= खर्वः, इव = यथा, 'खौं हस्वश्च वामनः' इत्यमरः। उपहास्यस्य भाव उपहास्यता तामुपहास्यताम् = उपहासविषयतां, गमिष्यामि = प्राप्स्यामि ।
समा०--कवयन्ति इति कवयः कवीनां यशः कवियशः, कवियशा प्रार्थयितुम् शीलम् अस्य इति कवियशःप्रार्थी । लब्धुम् योग्यम् लभ्यम्, प्रांशुना लभ्यम् प्रांशुलभ्यम्, तस्मिन् प्रांशुलभ्ये । उच्छितो बाहू यस्य स उद्बाहुः । उपहास्यस्य भावः उपहास्यता, ताम् उपहास्यताम् ।