________________
रघुवंश महाकाव्ये
सञ्जीविनी -- प्रभवत्यस्मादिति प्रभवः कारणम् । " ऋदोरप्" "अकर्तरि च कारके संज्ञायाम्" इति साधुः । सूर्यप्रभवो वंशः क्व । अल्पो विषयो ज्ञेयोऽर्थो यस्याः सा मे मतिः प्रज्ञा च क्व । द्वौ क्वशब्दी महदन्तरं सूचयतः | सूर्यवंशमाकलयितुं न शक्नोमीत्यर्थः । तथा च तद्विषयप्रबन्धनिरूपणं तु दूरापास्तमिति भावः ॥ तथाहि । दुस्तरं तरितुमशक्यम् "ईषदुः सुषु०" इत्यादिना खत्प्रत्ययः । सागरं मोहादज्ञानादुडुपेन प्लवेन । 'उडुपं तु प्लवः कोल:' इत्यमरः । अथवा चर्मावनद्धेन यानपात्रेण | 'चर्मावनद्धमुडुपं प्लवः काष्ठं करण्डवत्' इति सज्जनः । तितीर्षुस्तरीतुमिच्छुरस्मि भवामि । तरतेः सन्नन्तादुप्रत्ययः । अल्पसाधनैरधिकारम्भो न सुकर इति भावः । इदं च वंशोत्कर्षकथनं स्वप्रबन्ध महत्त्वार्थमेव । तदुक्तम्-'प्रतिपाद्यमहिम्ना च प्रबन्धो हि महत्तरः' इति ॥ २ ॥ |
४
अन्वयः - सूर्यप्रभवः, वंशः, क्व, अल्पविषया, "मम" मतिश्च क्व, "अहम्'' मोहाद्, दुस्तरं, सागरम्, उडुपेन, तितीर्षुः अस्मि ।
वाच्य ० -- सूर्यप्रभवेण, वंशेन क्व "भूयते" अल्पविषयया " मम" मत्या च क्व "भूयते" "मया" मोहात्, उडुपेन दुस्तरं सागरं तितीर्षुणा भूयते ।
=
,
व्याख्या -- प्रभवत्यस्मात् इति प्रभवः सूर्यः = सविता, प्रभवः = कारणं, यस्य स सूर्यप्रभवः, वंश - अन्वयः - कुलमित्यर्थः, क्व = कुत्र, अल्पः = स्वल्पः विषयः = ज्ञेयोऽर्थः यस्याः सा, अल्पविषया " मम" मतिः = बुद्धिः क्व = कुत्र, महदन्तरमस्तीत्यर्थः तथाहि "अहम्" दुस्तरं = तरितुमशक्यम्, सागरं = समुद्र, मोहात् = अज्ञानात्, उडुपेन = प्लवेन = चर्मावनद्धयानपात्रेण, तरीतुमिच्छति तितीर्षति, तितीर्षतीति तितीर्षु । तरीतुमिच्छुः अस्मि = भवामि । स्वल्पसाधर्नरधिकारम्भो न सम्यगस्तीति भावः ।
-
,
,
समा० -- प्रभवति अस्मात् इति प्रभवः सूर्यः प्रभवः यस्य सः सूर्यप्रभवः । अल्पः विषयः यस्याः सा अल्पविषया । तरीतुम् इच्छति इति तितीर्षति, तितीर्षति इति तितीर्षुः ।
अभि० -- महतः सूर्यवंशस्य मन्दबुद्धेश्च मम महदन्तरे वर्तमानेऽपि सूर्यवंशवर्णने मम प्रवृत्तिस्तथैव हास्यास्पदं यथा कश्चिन्मूर्खः उडुपेन महासागरं तितीर्षतीति ।