________________
प्रथमः सर्ग।
नत्वा सरस्वती दिव्यां, ध्यात्वा साम्बञ्च शंकरम् ।
करोमि रघुवंशस्य, व्याख्यां छात्रोपयोगिनीम् ॥ अन्वयः- 'अहं कालिदासः" वागर्थाविव, सम्पृक्ती, जगता, पितरो, पार्वतीपरमेश्वरी, वागर्थप्रतिपत्तये, वन्दे ।
वाच्य०--"मया" पार्वतीपरमेश्वरो, वागर्थप्रतिपत्तये वन्द्यते ।
व्याख्या--वाक् वाणी, च अर्थः = अभिधेयश्चेति वागर्थी, वागर्थो इव = यथा, इति वागविव, सम्पृक्ती=संमिलितो=नित्यसंबद्धावित्यर्थः, गच्छतीति जगत्, तस्य जगतः = संसारस्य, माता= जननी, च, पिता= जनकश्चेति पितरो (एकशेषः) पर्वतस्यापत्यं स्त्री पार्वती, ईशितुं शीलमस्येतीश्वरः, परम
चासो, ईश्वरः, परमेश्वरः, पार्वती= भवानी, च, परमेश्वरः = शिवश्चेति, पार्वतीपरमेश्वरी, (पार्वतीं पातीति पार्वतीपः, रमाया ईश्वरः, रमेश्वरः, पार्वतीपः= शिवा, रमेश्वरः = विष्णुः ती पार्वतीपरमेश्वरी, पार्वती पिपर्तीति पार्वतीपर:= शिवः, माया ईश्वरः मेश्वरः= विष्णुरिति तो पावंतीपरमेश्वरी) वाक् = वाणी च, अर्थोऽभिधेयश्चेति वागर्थो, तयोः, प्रतिपत्तिः=ज्ञानमिति वागर्थप्रतिपत्तिस्तस्यै वागर्थप्रत्तिपत्तये, वन्दे = प्रणमामि ।
समा०-वाक् च अर्थः च वागर्थों, वागर्थी इव वागर्थाविव । माता च पिता च पितरौ तो, पितरौ। पर्वतस्य अपत्यम् स्त्री पार्वती ईशितुम् शीलम् अस्य . इति ईश्वरः, पार्वती च परमेश्वरः च पार्वतीपरमेश्वरी तौ, तथोक्तो। वाक् च अर्थः च वागर्थों, वागर्थयोः प्रतिपत्तिः, वागर्थप्रतिप्रत्तिः, तस्य वागर्थप्रतिपत्तये।
अभिल-महाकविः कालिदासः, काव्यनिर्माणार्थमपेक्षितयोः शब्दार्थयो। सम्यग्ज्ञानाय, जगतः पितरौ, उमामहेश्वरौ मिलितो शब्दार्थो, इव प्रणमति ।
हिन्दी-शब्द और अर्थ के समान (नित्यसम्बद्ध) एकरूप, और संसार के माता-पिता पार्वतीजी और शिवजी को, शब्द और अर्थ का ठीक ठीक ज्ञान तथा व्यवहार करने के लिये, में (कालिदास) प्रणाम करता हूँ॥१॥ संप्रति कविः स्वाइंकारं परिहरति 'क्व सूर्य-' इत्यादिश्लोकद्वयेन
क्व सूर्यप्रभवो वंशः क्व चाल्पविषया मतिः । तितीपुर्दुस्तरं मोहादुडुपेनास्मि सागरम् ॥२॥