________________
रघुवंशमहाकाव्ये
सञ्जीविनी--इह खल सकलकविशिरोमणिः कालिदासः 'काव्यं यशसेऽर्थकृते व्यवहारविदे शिवेतरक्षतये। सद्यः परनिर्वतये कान्तासंमिततयोपदेशयुजे' इत्याद्यालंकारिकवचनप्रामाण्यात्काव्यस्यानेकश्रेयःसाधनताम्, 'काव्यालापांश्च वर्जयेत्' इत्यस्य निषेधशास्त्रस्यासत्काव्यविषयतां च पश्यन् , रघुवंशाख्यं महाकाव्यं चिकीर्षुः, चिकीर्षितार्थाविधनपरिसमाप्तिसंप्रदायाविच्छेदलक्षणफलसाधनभूतविशिष्टदेवतानमस्कारस्य शिष्टाचारपरिप्राप्तत्वात्, 'आशीर्नमस्क्रिया वस्तुनिर्देशो वापि तन्मुखम्' इत्याशीर्वादाद्यन्यतमस्य प्रबन्धमुखलक्षणत्वाकाव्यनिर्माणस्य विशिष्टशब्दार्थप्रतिपत्तिमूलकत्वेन विशिष्टशब्दार्थयोश्च 'शब्दजातमशेषं तु धत्ते शर्वस्य वल्लभा। अर्थरूपं यदखिलं धत्ते मुग्धेन्दुशेखरः ॥ इति वायुपुराणसंहितावचनबलेन पार्वतीपरमेश्वरायत्तत्वदर्शनात्तत्प्रतिपित्सया तावे. वाभिवादयते--
वागर्थाविव संपृक्तौ वागर्थप्रतिपत्तये ।
जगतः पितरौ वन्दे पार्वतीपरमेश्वरौ ॥१॥ सञ्जीविनी-वागर्थाविवेत्येकं पदम् । "इवेन सह नित्यसमासो विभक्त्यलोपश्च पूर्वपदप्रकृतिस्वरत्वं चेति वक्तव्यम्"। एवमन्यत्रापि द्रष्टव्यम् । वागर्थाविव शब्दार्थाविव संपृक्तौ नित्यसंबद्धावित्यर्थः । नित्यसंबद्धयोरुपमानत्वेनोपादानात् । 'नित्यः शब्दार्थसंबन्धः' इति मीमांसकाः। जगतो लोकस्य पितरौ। माता च पिता च पितरो। "पिता मात्रा" इति द्वन्द्वकशेषः । 'मातापितरौ पितरी मातरपितरौ प्रसूजनयितारी' इत्यमरः। एतेन शर्वशिवयोः सर्वजगज्जनकतया वैशिष्टयमिष्टार्थप्रदानशक्तिः परमकारुणिकत्वं च सूच्यते। पर्वतस्यापत्यं स्त्री पार्वती "तस्थापत्यम्" इत्यण् । "टिड्ढाणा द्वयसज्दघ्ना ०" इत्यादिना डीप् । पार्वती च परमेश्वरश्च पार्वतीपरमेश्वरी । परमशब्दः सर्वोत्तमत्वद्योतनार्थः । मातुरभ्यहितत्वादल्पाक्षरत्वाच्च पार्वतीशब्दस्य पूर्वनिपातः । वागर्थप्रतिपत्तये शब्दार्थयोः सम्यग्ज्ञानार्थं वन्देऽभिवादये। अत्रोपमालंकारः स्फुट एव । तथोक्तम्-'स्वतः सिद्धन भिन्नेन संपन्नेन च धर्मतः। साम्यमन्येन वर्ण्यस्य वाच्यं चेदेकगोपमा ॥' इति । प्रायिकश्चोपमालंकारः कालिदासोक्तकाव्यादी। भूदेव- . ताकस्य सर्वगुरोर्मगणस्य प्रयोगाच्छुभलाभः सूच्यते । तदुक्तम्-'शुभदो मो भूमिमयः' इति । वकारस्यामतबीजत्वात्प्रचयगमनादिसिद्धिः ॥१॥