________________
श्रीरघुवंश महाकाव्यम्
सञ्जीविनी - छात्रोपयोगिनी - हिन्दीटीकायुतम्, प्रथमः सर्गः
मातापितृभ्यां जगतो नमो वामार्धजानये । दक्षिणपातसंकुचद्वामदृष्टये ||
सो अन्तरायतिमिरोपशान्तये शान्तपावनमचिन्त्यवैभवम् । तं नरं वपुषि कुञ्जरं मुखे मन्महे किमपि तुन्दिलं महः ॥ शरणं करवाणि शर्मदं ते चरणं वाणि चराचरोपजीव्यम् । करुणामसृणैः कटाक्षपातैः कुरु मामम्ब कृतार्थसार्थवाहम् ॥
वाणीं काणभुजीमजीगणदवाशासीच्च वैयासिकीमन्तस्तन्त्र मरस्त पन्नगगवीगुम्फेषु चाजागरीत् । वाचामाकलयद्रहस्यमखिलं यश्चाक्षिपादस्फुरां लोकेऽभूद्यदुपज्ञमेव विदुषां सोजन्यजन्यं यशः ॥ मल्लिनाथकविः सोऽयं मन्दात्मानुजिघृक्षया । व्याचष्टे कालिदासीयं काव्यत्रयमनाकुलम् ॥ कालिदासगिरां सारं कालिदासः सरस्वती । चतुर्मुखोऽथवा साक्षाद्विदुर्नान्ये तु मादृशाः ॥ तथापि दक्षिणावर्तनाथाद्यैः क्षुण्णवत्सु । वयं च कालिदासोक्तिष्ववकाशं लभेमहि || भारती कालिदासस्य दुर्व्याख्या विषमूर्च्छिता । एषा सञ्जीविनी टीका तामद्योज्जीवयिष्यति ॥ इहान्वय मुखेनैव सवं व्याख्यायते मया । नामूलं लिख्यते किञ्चिन्नानपेक्षितमुच्यते ॥