________________
सप्तमः सर्गः
से सजाई गई थी तथा पुष्पवर्षा से मार्ग पट गया था और इतनी पताकाएं लगी थीं कि धूप का नाम ही न था ॥ ४ ॥
ततस्तदालोकनतत्पराणां सौधेषु चामीकरजालवत्सु ।
८७
बभूवुरित्थं पुरसुन्दरीणां त्यक्तान्यकार्याणि विचेष्टितानि ॥५॥ संजी०. - तत इति । ततस्तदनन्तरं चामीकरजालवत्सु सौवर्णगवाक्षयुक्तेषु सौधेषु तस्याजस्यालोकने तत्पराणामासक्तानां पुरसुन्दरीणामित्थं वक्ष्यमाणप्रकाराणि त्यक्तान्यन्यकार्याणि केशबन्धनादीनि येषु तानि विचेष्टितानि व्यापाराः । नपुंसके भावे क्तः । बभूवुः ||५||
अन्वयः - ततः चामीकरजालवत्सु सोधेषु तदालोकनतत्पराणां पुरसुन्दरीणाम् इत्थं त्यक्तान्यकार्याणि विचेष्टितानि बभूवुः ।
व्याख्या— ततः=राजमार्गप्रवेशानन्तरम् चामीकरस्य = सुवर्णस्य जालानि= गवाक्षाः सन्ति येषु ते तेषु चामीकरजालवत्सु = सुवर्णनिर्मितवातायनवत्सु इत्यर्थः, सौधेषु = भवनेषु तस्य = अजस्य आलोकनं दर्शनं तस्मिन् तत्पराः = आसक्ताः इति तदालोकनतत्परास्तासां तदालोकनतत्पराणाम् पुरस्य = नगरस्य सुन्दर्यः रमण्यस्तासां पुरसुन्दरीणाम् इत्थम् = वक्ष्यमाणप्रकाराणि त्यक्तानि = परित्यक्त नि अन्यानि = अपराणि कार्याणि = केशबन्धनादीनि येषु तानि त्यक्तान्यकार्याणि, विशेषाणि च तानि चेष्टितानि = व्यापाराः बभूवुः = जातानि ।
=
आलोकमार्गं सहसा व्रजन्त्या कयाचिदुद्वेष्टनवान्तमाल्यः । बन्धुं न संभावित एव तावत्करेण रुद्धोऽपि च केशपाशः ॥ ६ ॥
=
समासः-चामीकरस्य जालानि सन्ति येषु ते तेषु चामीकरजालवत्सु । सुधया लिप्ताः सौधास्तेषु सौधेषु । तस्य आलोकनं तदालोकनं तदालोकने तत्परास्तासां तदालोकनतत्पराणाम् । पुरस्य सुन्दर्यस्तासां पुरसुन्दरीणाम् । त्यक्तानि अन्यानि कार्याणि येषु तानि त्यक्तान्यकार्याणि । विशेषाणि च तानि चेष्टितानि विचेष्टितानि ।
हिन्दी - राजमार्ग में चलते समय, सुवर्णनिर्मित झरोखों ( खिड़की ) वाले अपने-अपने भवनों से अज को देखने में लगीं, भोज के नगर की सुन्दरियां अन्य सब कार्य छोड़कर अग्रिम श्लोकों में वर्णित चेष्टाएं करने लगीं ॥५॥