________________
रघुवंशमहाकाव्ये
संजी० - आलोकेति । सहसाऽऽलोकमार्ग गवाक्षपथं व्रजन्त्या कयाचित्कामिन्योद्वेष्टनवान्तमात्यः । उद्वेष्टनो द्रुतगतिवशादुन्मुक्तबन्धनः । अत एव वान्तमाल्यो वन्घविश्लेषेणोद्गीर्णमात्यः । करेण रुद्धो गृहीतोऽपि च केशपाशः केशकलापः । 'पाश': पक्षश्च हस्तरच कलापार्थाः कचात्परे' इत्यमरः । तावदालोकमार्गप्राप्तिपर्यन्तं बन्धुं बन्धनार्थं संभावितो न चिन्तित एव ।
अन्वयः - सहसा आलोकमार्ग व्रजन्त्या कयाचित् उद्वेष्टनवान्तमाल्यः करेण रुद्धः अपि च केशपाशः तावत् बन्धुं न सम्भावितः एव ।
८८
व्याख्या - सहसा = झटिति अजावलोकनत्वरयेत्यर्थः, आलोकस्य गवाक्षस्य मार्गः :ि = पन्थाः तम् आलोकमार्ग व्रजन्ता = गच्छन्त्या कयाचिद् = कामिन्या = स्त्रिया उद्गतम् = उन्मुक्तं शीघ्रगतिवशादित्यर्थः, वेष्टनं = बन्धनं यस्य स उद्वेष्टनः वान्तं ===पतितम् ( अर्थात् बन्ध विश्लेषेणोद्गीर्णमिति यावत् ) माल्यं = पुष्पमाला यस्य स वान्तमाल्यः उद्वेष्टन: अत एव वान्तमाल्यः इति उद्वेष्टनवान्तमाल्यः, करेण = हस्तेन रुद्धः = गृहीतः - अवलम्बित: अपि च केशानां = कचानां पाशः = समूहः केशपाशः तावत् = गवाक्षमार्गपर्यन्तं बन्धुं = बन्धनार्थं न = नहि सम्भावितः = विचारितः एव ।
समासः -- आलोकस्य मार्गस्तम् आलोकमार्गम्, उद्गतं वेष्टनं यस्य स उद्वेष्टनः, वान्तं माल्यं यस्य स वान्तमाल्यः उद्वेष्टनश्चासौ वान्तमाल्यश्च उद्वेष्टनवान्तमात्यः । केशानां पाशः केशपाशः ।
हिन्दी - झटपट झरोखे की तरफ जाती हुई एक सुन्दरी ( दौड़ कर जाने के कारण ) जूड़े के ढीले पड़ जाने से जिसके पुष्प गिर गये और हाथ से पकड़े हुए भी तब तक अपने केश समूह (चोटी) को बाँधना ही भूल गई, जब तक अज को न देख लिया अर्थात् ( एक सुन्दरी को ) दौड़ने से जिसकी माला गिर गई ऐसे खुले केशों को हाथ में पकड़े ही पकड़े झरोखे में जाकर अज को देखकर ही जूड़ा बाँधने का ध्यान आया || ६ ॥ प्रसाधिकालम्बितमग्रपादमाक्षिप्य काचिद् द्रवरागमेव । उत्सृष्टलीला गतिरागवाक्षादलक्तकाङ्कां पदवीं ततान || ७|| संजी० - प्रसाधिकेति । काचित् । प्रसाधिकयाऽलंकर्या लम्बितं रञ्जनार्थं धृतं द्रवर गमेवार्द्रालक्तकमेव । अग्रश्चासौ पादश्चेत्यग्रपाद इति कर्मधारयसमासः ।