________________
रघुवशमहाकाव्ये तावत्प्रकीर्णाभिनवोपचारमिन्द्रायुधद्योतिततोरणाङ्कम् । वरः स वध्वा सह राजमार्ग प्राप ध्वजच्छायनिवारितोष्णम् ॥४॥
संजी०-तावदिति । यावत्तावच्च साकल्ये' इत्यमरः । तावत्प्रकीर्णाः साकल्येन प्रसारिता अभिनवा नूतना उपचाराः पुष्पप्रकरादयो यस्य तं तथोक्तम् । इन्द्रायुधानीव द्योतितानि प्रकाशितानि तोरणान्याश्चिह्नानि यस्य तम्। ध्वजानां छाया ध्वजच्छायम् 'छाया बाहुल्ये' (पा.२।४।२२ ) इति नपुंसकत्वम् । तेन निवारित उष्ण आतपो यत्र तं तथा राजमार्ग स वरो वोढा वध्वा सह प्राप विवेश ॥४॥
अन्वयः-सः वरः वध्वा सह तावत् प्रकीर्णाभिनवोपचारम्, इन्द्रायुधद्योतिततोरणाङ्कम् ध्वजच्छायनिवारितोष्णम राजमार्गम् प्राप ।
व्याख्या-सः पूर्वोक्तः वरः--वोढा, अज इत्यर्थः । वध्वा इन्दुमत्या सह= साकम्, तावत्-साकल्येन, सम्यक्तया बाहुल्येनेत्यर्थः प्रकीर्णा: प्रसारिता: प्रक्षिप्ताः अभिनवा: नूतनाः उपचारा:-पुष्पप्रकरादयः पुष्पविशेषा इत्यर्थः,यस्य स तं तावत्प्रकीर्णाभिनवोपचारम्, इन्द्रस्य-देवराजस्य आयुधानि प्रहरणानि इव द्योतितानि प्रकाशितानि तोरणानि बहिाराणि अङ्का:= चिह्नानि यस्य सः, तम् इन्द्रायुधद्योतिततोरणाङ्कम् ध्वजानाम्=पताकानाम् छाया अनातपः, इति ध्वजच्छायम् तेन निवारितः = दूरीकृत: उष्ण: आतपः यत्र तं ध्वजच्छायनिवारितोष्णम्, राज्ञां भार्गस्तं राजमार्ग = प्रधानमार्गम् प्राप = आजगाम ।
समासः-तावन्तः प्रकीर्णाः अभिनवाः उपचारा यस्य स तं तावत्प्रकीर्णाभिनवोपचारम्, इन्द्रस्य आयुधानि इव द्योतितानि तोरणानि अङ्काः यस्य स तम् इन्द्रायुधद्योतिततोरणांकम् । ध्वजानां छाया ध्वजच्छायम्, तेन निवारितः उष्णः यस्य स तं ध्वजच्छायनिवारितोष्णम्, राज्ञां मार्गस्तं राजमार्गम् ।
हिन्दी-नवविवाहित वह अज अपनी पत्नी के साथ उस राजपथ में प्रविष्ट हुए, जिसमें कि खूब अच्छी प्रकार से नए-नए पुष्पों की वर्षा हो रही थी तथा इन्द्रधनुष के समान रंगविरंगे तोरण प्रकाशमान हो रहे थे और पताकाओं की छाया से धूप भाग गई थी। अर्थात् उस समय वह सड़क खूब रंगविरंगी झण्डियों