________________
सप्तमः सर्गः चन्द्र तारों के समान मलिन कान्तिवाले दूसरे राजा लोग भी अपने-अपने शिबिर (तम्बू) में चले गये ॥२॥
सांनिध्ययोगात्किल तत्र शच्याः स्वयंवरक्षोभकृतामभावः । काकुत्स्थ मुद्दिश्य समत्सरोऽपि शशाम तेन क्षितिपाललोकः ॥३॥
संजी०-सांनिध्येति । तत्र स्वयंवरक्षेत्रे शच्याः इन्द्राण्याः । संनिधिरेव सांनिध्यम् । तस्य योगात्सद्भावाद्धेतोः स्वयंवरस्य क्षोभकृतां विघ्नकारिणामभावः किल। 'किल' इति स्वयंवरविघातकाः शच्या विनाश्यन्त इत्यागमसूचनार्थम् । तेन हेतुना काकुत्स्थमजमुद्दिश्य समत्सरोऽपि सवैरोऽपि क्षितिपाललोकः शशाम नाक्षुभ्यत् ॥३॥
अन्वयः-तत्र शच्याः सांनिध्ययोगात् स्वयंवरक्षोभकृताम् अभावः किल तेन काकुत्स्थम् उद्दिश्य समत्सरः अपि क्षितिपाललोकः शशाम ।
व्याख्या-तत्र=स्वयंवरस्थले शच्याः = इन्द्राण्याः सन्निधिरेव सान्निध्यम्, सान्निध्यस्य = सामीप्यस्य योगः = सद्भावः, तस्मात् सान्निध्ययोगात् कारणात् स्वयंवरस्य = स्वयंवरणस्य क्षोभं = विघ्नं कुर्वन्ति = विदधति इति स्वयंवरक्षोभकृतः तेषां स्वयंवरक्षोभकृताम् स्वयंवरविघातकानामित्यर्थः, अभावः = असत्त्वम् किल, किलशब्देन स्वयंवरविघ्नकारिण इन्द्राण्या विनाश्यन्त इति सूच्यते। तेन कारणेन ककुत्स्थस्य गोत्रापत्यं पुमान् काकुत्स्थस्तं काकुत्स्थम् अजम् उद्दिश्य= तं प्रति मत्सरेण सहितः समत्सरः = सवैरः अपि क्षिति-पथिवीं पालयन्ति रक्षन्ति इति क्षितिपालास्तेषां लोकः= समूहः शशाम = न क्षुभितः, शान्त आसीदित्यर्थः ।
समासः-सन्निधिरेव सान्निध्यं तस्य योगस्तस्मात् सांनिध्ययोगात् । स्वयं वृणुते (कन्या पति) यस्मिन् सः स्वयंवरः । क्षोभं कुर्वन्ति ते क्षोभकृतः, स्वयंवरस्य क्षोभकृतः स्वयंवरक्षोभकृतस्तेषां स्वयंवरक्षोभकृताम् । क्षिति पालयन्तीति क्षितिपालास्तेषां लोक: क्षितिपाललोकः । मत्सरेण सह वर्तमानः समत्सरः ।
हिन्दी-उस स्वयंवर में इन्द्राणी के उपस्थित होने के कारण स्वयंवर में विघ्न करने वालों का अभाव ही रहा, (अर्थात् इन्दुमती से निराश हुए तथा अज से कुढ़ने वाले राजा किसी प्रकार की गड़बड़ी नहीं कर सके क्योंकि वहाँ स्वयवर की देवता इन्द्राणी विघ्न दूर करने के लिए विद्यमान थी) इसलिए अज से चिढ़ने वाले सभी राजा लोग ठण्डे पड़ गये ॥३॥