________________
रघुवंशमहाकाव्ये तस्य गोत्रभिदः = इन्द्रस्य, आसनस्य = पीठस्य अर्धम् =अर्धभागम्, अर्धासनम् अधितष्ठौ अधिष्ठितवान् । न केवलं महावृषभरूपिणः इन्द्रस्य ककुदमारुरुक्षत् किन्तु तस्यार्धासनमपि अधिष्ठितवानित्यर्थः । ___समासः-ऐरावतस्य स्फालनं तेन विश्लथमिति ऐरावतस्फालनविश्लथम् तत् आसनस्यार्धम् अर्धासनम् तत्। गोत्रान् भिनत्तीति गोत्रभित्, तस्य गोत्रभिदः । अग्रे भवा अग्र्या, ताम् अग्रयाम् ।
हिन्दी-जो ककुत्स्य राजा (युद्ध समाप्त होने पर) ऐरावत हाथी की पीठ ठोकने से ढीले पड़े हुए इन्द्र के बाजबन्द को अपने बाजूबन्द से रगड़ते हुए, उस इन्द्र के आधे सिंहासन पर बैठे थे। जो इन्द्र अपने श्रेष्ठ देह को धारण किये हुए थे । अर्थात् सांड़ का रूप छोड़कर अपने स्वरूप में सिंहासन पर बैठे थे तब ककुत्स्थ भी इन्द्र से सट कर आधे आसन पर बैठे थे ।। ७३ ।।
जातः कुले तस्य किलोरुकीतिः कुलप्रदीपो नृपतिदिलीपः । अतिष्ठदेकोनशतक्रतुत्वे शक्राभ्य सूयाविनिवृत्तये यः ।।७४।।
संजी०-जात इति । उरुकोतिर्महायशाः कुलप्रदीपो वंशप्रदीपको दिलीपो नृपतिस्तस्य ककुत्स्थस्य कुले जातः किल । यो दिलीपः शक्राभ्यसूया विनिवृत्तये । न त्वशक्त्येति भावः । एकेनोनाः शतं क्रतवो यस्य स एकोनशतक्रतुस्तस्य भावे तत्त्वेऽतिष्ठत् । इन्द्रप्रीतये शततमं क्रतुमवशेषितवानित्यर्थः ।। ७४ ।।
अन्वयः-उस्कोतिः कुलप्रदीपः दिलीपः नृपति: तस्य कुले जातः, यः शक्राभ्यसूयाविनिवृत्तये एकोनशतक्रतुत्वे अतिष्ठत् ।
व्याख्या-उरुं: विस्तीर्णा कीतिः = यशः यस्य स उरुकीर्तिः कुलस्यवंशस्य, प्रदीप:=दीपः, प्रकाशक इत्यर्थः, कुलप्रदीपः दिलीपः एतन्नामा नृणां पतिः नपतिः= राजा, तस्य ककुत्स्थस्य कुले =वंशे, जातः=अभूत्, य:-दिलीप: किल-प्रसिद्धम्, शक्रस्य =इन्द्रस्य, अभ्यसूया गुणेषु दोषाविष्करणं तस्याः विनिवृत्तिः =निवारणं तस्यै, शक्राभ्यसूयाविनिवृत्तये न तु असामर्थ्यात् एकेन =क्रतुना एकसंख्यकेन ऊनाः हीनाः शतं क्रतवः शतं यज्ञाः यस्य स एकोनशतक्रतुः, तस्य भावः तत्त्वम् एकोनशतक्रतुत्वं तस्मिन् एकोनशतक्रतुत्वे, अतिष्ठत् तस्थौ। इन्द्रस्य प्रसन्नतायै शततमं यज्ञं न कृतवानित्यर्थः ।