________________
षष्ठः सर्गः
प्रोषिताः = निवृत्ताः पत्राणां = चित्रविशेषाणां लेखाः = रचना: यासु ताः प्रोषितपत्रलेखास्ताः चकार=कृतवान् । असुराणां वधादित्यर्थः, नहि खलु विधवाः स्त्रियः प्रसाधनं कुर्वन्तीति भावः ।
समासः - महांश्चासौ उक्षा च महोक्षः महोक्षस्य रूपमिव रूपं यस्य स तं महोक्षरूपम् । प्राप्ता पिनाकिनः लीला येन स प्राप्तपिनाकिलील: । असुराणाम् अंगनास्तासाम् असुरांगनानाम् गण्डयोः स्थल्यस्ताः गण्डस्थली: । प्रोषिताः पत्राणां लेखाः यासु ताः प्रोषितपत्रलेखाः ।
६९
हिन्दी - जिस ककुत्स्थ राजा ने देवासुर संग्राम में महावृषभ ( साँड़ ) का रूप धारण किये हुए इन्द्र के ऊपर चढ़कर इसी से शिवजी की लीला को प्राप्त होकर अपने बाणों से ( दैत्यों को मारने के कारण ) असुरों की स्त्रियों के कपोल स्थलों को पत्ररचना (शृंगार विशेष ) से शून्य कर दिया । अर्थात् पतियों के मर जाने पर असुर स्त्रियों ने विधवा होने से ऋगार करना छोड़ दिया ॥ ७२ ॥ ऐरावतास्फालन विश्लथं यः संघट्टयन्नङ्गदम ङ्गदेन ।
उपेयुषः स्वामपि मूर्तिमय्यामर्धासनं गोत्रभिदोऽधितष्ठौ ॥७३॥
संजी० - ऐरावतेति । यः ककुत्स्थ ऐरावतस्य स्वर्गजस्यास्फालनेन ताडनेन विश्लथं शिथिलमङ्गदमैन्द्रमङ्गदेन स्वकीयेन संघट्टयन् संघर्षयन् स्वामस्यां श्रेष्ठां मूर्तिमुपेयुषोऽपि प्राप्तस्यापि गोत्रभिद इन्द्रस्यार्धमासनस्यार्घासनम् । 'अर्धं नपुंसकम्' ( पा. २२२ ) इति समास: । अधितष्ठावधिष्ठितवान् । 'स्थादिष्वभ्यासेन चाभ्यासस्य (पा. ८।३।६४ ) इत्यभ्यासेन व्यवायेऽपि षत्वम् । न केवलं महोक्षरूपधारिण एव तस्य ककुदमारुरुक्षत् । किन्तु निजरूपधारिणोऽपीन्द्रस्यार्धासनमित्यपिशब्दार्थः । अथवा - अर्धासनमपीत्यपेरन्वयः ॥७३॥
अन्वयः -- यः ऐरावतस्फालनविश्लथम् अंगदम् अंगदेन संघट्टयन् स्वाम् अग्रयां मूर्तिम् उपेयुषः अपि गोत्रभिदः अर्धासनम् अधितष्ठौ ।
व्याख्या–यः=ककुत्स्थः ऐरावतस्य = इन्द्रगजस्य स्फालनं ताडनं तेन विश्लथं = शिथिलम् इति ऐरावतस्फालन विश्लथम्, अंगदम् - इन्द्रस्य केयूरम्, अंगदेन स्वकीयकेयूरेण, संघट्टयन्= संघर्षयन्, स्वाम् = स्वकीयाम्, अभ्याम् = श्रेष्ठाम् मूर्तिम् = देहं, शरीरम् उपेयुषः प्राप्तस्य, अपि गोत्रान् पर्वतान् भिनत्तीति-विदारयतीति गोत्रभित्