________________
षष्ठः सर्गः समासः-ऊरुः कीर्तिः यस्य स उरुकीतिः । कुलस्य प्रदीपः कुलप्रदीपः । शक्रस्य अभ्यसूया, शक्राभ्यसूया तस्याः विनिवृत्तिः, तस्य शक्राभ्यसूयाविनिवृत्तये । एकेन ऊना: शतं क्रतवंः यस्य स एकोनशतक्रतुः, तस्य भावस्तत्त्वं तस्मिन् एकोनशतक्रतुत्वे ।
हिन्दी--महायशस्वी कुलदीपक (कुल को चमका देनेवाला) दिलीप नाम का राजा उस ककुत्स्थ राजा के वंश में उत्पन्न हुआ था। जो राजा दिलीप, इन्द्र की ईर्ष्या (डाह) को दूर करने के लिए ही केवल निन्यानबे यज्ञ करके रह गये । अर्थात् इन्द्र को डाह न हो इसलिए सौवाँ यज्ञ नहीं किया । क्योंकि सौवाँ यज्ञ कर लेने से तो दिलीप भी शतक्रतु इन्द्र बन जाते ॥७४॥
यस्मिन्महीं शासति वाणिनीनां निद्रां विहारार्धपथे गतानाम् । वातोऽपि नास्रसयदंशुकानि को लम्बयेदाहरणाय हस्तम् ॥७५॥
संजी०. यस्मिन्निति । यस्मिन् दिलीपे महीं शासति सति । विहरत्यत्रेति विहारः क्रीडास्थानम् । तस्यापिथे निद्रां गतानां वाणिनीनां मत्ताङ्गनानाम् । 'वाणिनी नर्तकीमत्ताविदग्धवनितासु च' इति विश्वः । 'वाणिन्यौ नर्तकीमत्ते' इत्यमरश्च । अंशकानि वस्त्राणि वातोऽपि नास्रंस यन्नाकम्पयत । आहरणायापहर्त को हस्तं लम्बयेत् ? यस्याज्ञासिद्धत्वादकुतोभयसंचाराः प्रजा इत्यर्थः । अर्धश्चासौ पन्थाश्चेति विग्रहः । समप्रविभाग प्रमाणाभावान्नैकदेशिसमासः ।। ७५ ॥ __अन्वयः-यस्मिन् महीं शासति सति, विहारार्धपथे निद्रां गतानां वाणिनीनाम्, अंशुकानि वातः अपि न अख्सयत्, आहारणाय कः हस्तं लम्बयेत् ।
व्याख्या-यस्मिन् दिलीपे मह्य ते = पूज्यते इति मही ताम् महीं= पृथिवीं शासति = पालयति सति, विहरति अत्र स विहारः अर्धश्चासौ पन्थाश्चेति अर्धपथः, विहारस्य क्रीडास्थानस्य अर्धपथः = अर्धमार्गः, विहारार्धपथस्तस्मिन् विहारार्धपथे निद्रां = शयनम् गतानाम् =प्राप्तानाम् वाणिनीनां मत्तांगनानां नर्तकीनाम् अंशुकानि = वस्त्राणि वातः = पवनः अपि न अस्रंस यत् = अकम्पयत्, आहरणाय अपहरणाय, कः=जन:, हस्तं करं लम्बयेत् प्रसारयेत् ? न कोऽपीत्यर्थः।
समास:- मह्यते इति मही तां महीम् । विहरति यति विहारः अर्धश्चासौ पन्थाश्चेति अर्धपथः, विहारस्यार्धपथः तस्मिन् विहारार्धपथे ।