________________
रघुवंशमहाकाव्ये वक्षान्तरं तत् वृक्षान्तरम् । षट् पदानि येषां ते तथोक्ता: षट्पदानाम् आली षट्पदाली । प्रकर्षेण फुल्लतीति प्रफुल्लस्तं प्रफुल्लम् ।
हिन्दी-कुमारी इन्दुमती, सर्वा गसुन्दर उस अज को पाकर दूसरे राजा के पास जाने से रुक गई। ठीक ही है भौरों का झुण्ड खिले हुए आम के वृक्ष को पाकर दूसरे किसी वृक्ष को नहीं चाहता। अर्थात् सर्वोत्कृष्ट वस्तु के मिल जाने पर कोई दूसरी वस्तु को नहीं चाहता ॥ ६९ ॥
तस्मिन्समावेशितचित्तवृत्तिमिन्दुप्रभामिन्दुमतीमवेक्ष्य। प्रचक्रमे वक्तुमनुक्रमज्ञा सविस्तरं वाक्यमिदं सुनन्दा ।। ७० ॥
संजी0-तस्मिन्निति । तस्मिन्नजे समावेशिता संक्रामिता चित्तवृत्तिर्यया ताम् । इन्दोः प्रभव प्रभा यस्यास्ताम् । आह लादकत्वादिन्दुसाभ्यम् । इन्दुमतीमवेक्ष्यानुक्रमज्ञा वाक्यपौर्वापर्याभिज्ञा सुनन्देदं वक्ष्यमाणं सविस्तरं सप्रपञ्चम् । 'प्रथने वावशब्दे' (पा. ३।३।३३) इति घनो निषेधात्, ऋदोरप्' (पा. ३।३।५७) इत्यप्रत्ययः । 'विस्तारो विग्रहो व्यासः स च शब्दस्य विस्तरः' इत्यमरः । वाक्यं वक्तुं प्रचक्रमे ॥ ७० ॥
अन्वयः-तस्मिन् समावेशितचित्तवृत्तिम् इन्दुप्रभाम् इन्दुमतीम अवेक्ष्य अनुक्रमज्ञा सुनन्दा इदं सविस्तरं वाक्यं वक्तुं प्रचक्रमे ।
व्याख्या-तस्मिन् -अजे सम्यगावेशिता=संक्रामिता चित्तस्य = मनसः वृत्तिःव्यापारः यया सा, ताम् समावेशितचित्तवृत्तिम्, इन्दो:= चन्द्रस्य प्रभा= कान्तिः इव प्रभा यस्याः सा ताम् इन्दुप्रभाम्, इन्दुमतीम् =भोज्याम् अवेक्ष्य = अवलोक्य, अनुक्रमम् =पौर्वापर्यम् जानाति = वेत्तीति अनुक्रमज्ञा सुनन्दा = दौवारिकी इदं = वक्ष्यमाणं विस्तरेण सहितं सविस्तरं सप्रपञ्च विस्तारपूर्वमित्यर्थः, वाक्यं = वचनं वक्तुं कथयितुं प्रचक्रमे = आरेभे ।।
समासः-सम्यग् आवेशिता चित्तस्य वृत्तिर्यया सा तां समावेशितचित्तवृत्तिम् । इन्दोः प्रभा इव प्रभा यस्याः सा ताम् इन्दुप्रभाम् । अनुक्रमं जानातीति अनुक्रमज्ञा । विस्तरेण सहितं यथा भवति तथा सविस्तरम् ।
हिन्दी--उस अज में लगी है चित्तवृत्ति जिसकी (अर्थात् अज में अनुरक्त) और चन्द्रमा के समान सुन्दर कान्तिवाली इन्दुमती को जानकर राजवंशावली को