________________
षष्ठः सर्गः
६७
जानने वाली सुनन्दा, आगे कहे जाने वाले वचन को विस्तारपूर्वक कहने लगी ॥ ७० ॥
इक्ष्वाकुवंश्यः ककुदं नृपाणां ककुत्स्थ इत्याहितलक्षणोऽभूत् । काकुत्स्थशब्दं यत उन्नतेच्छाः श्लाघ्यं दधत्युत्तरकोसलेन्द्राः । ७१ ।
संजी० --- इक्ष्वाक्विति । इक्वाकोर्मनुपुत्रस्य वंश्यो वंशे भवः । नृपाणां ककुदं श्रेष्ठः । 'ककुच्च ककुदं श्रेष्ठे वृषांसे राजलक्ष्मणि' इति विश्वः, आहितलक्षणः प्रख्यातगुणः । ‘गुणैः प्रतीते तु कृतलक्षणाहितलक्षणी' इत्यमरः । ककुदि वृषांसे तिष्ठतीति ककुत्स्थ इति प्रसिद्धः कश्चिद्राजाभूत् । यतः ककुत्स्थादारभ्योन्नतेच्छा महाशयाः । 'महेच्छस्तु महाशयः' इत्यमरः । उत्तरकोसलेन्द्रा राजानो दिलीपादयः श्लाघ्यं प्रशस्तम् । ककुत्स्थस्यापत्यं पुमान् काकुत्स्थ इति शब्द संज्ञां दधति fafa | तन्नामसंस्पर्शोऽपि वंशस्य कीर्तिकर इति भावः । पुरा किल पुरंजयो नाम साक्षाद्भगवतो विष्णोरंशावतारः कश्चिदेक्ष्वाको राजा देवैः सह समयबन्धेन देवासुरयुद्धे महोक्षरूपधारिणो महेन्द्रस्य ककुदि स्थित्वा पिनाकिलीलया निखिलमसुरकुलं निहत्य ककुत्स्थसंज्ञां लेभ इति पौराणिकी कथाsत्रानुसंधेया । वक्ष्यते चायमेवार्थ उत्तरश्लोके ॥ ७१ ॥
अन्वयः - इक्ष्वाकुवंश्यः नृपाणां ककुदम् आहितलक्षणः ककुत्स्थः इति कश्चित् प्रभूत् । यतः उन्नतेच्छाः उत्तरकोसलेन्द्राः श्लाघ्यं काकुत्स्थशब्द दधति ।
व्याख्या - इक्ष्वाको: = मनुपुत्रस्य वंशः = कुलं तत्र भवः इक्ष्वाकुवंश्यः नृपाणां भूपालानां ककुदं = श्रेष्ठ: ( अजहल्लिंग मिदम् ) । आहितानि = प्रख्यातानि लक्षणानि = गुणा: यस्य स आहितलक्षणः ककुदि = वृषस्कन्धे तिष्ठतीति ककुत्स्थः, इति प्रसिद्धः कश्चित् राजा अभूत् = जातः, यतः = :- यस्मात् ककुत्स्थात् आरभ्य उन्नता = महती इच्छा = आशयः येषां ते उन्नतेच्छाः = महाशयाः, उत्तराः=उत्तरदिग्भवाश्च ते कोसला : = देशा:, इति उत्तरकोसलास्तेषाम् इन्द्राः = राजानः उत्तरकोसलेन्द्राः=दिलीपादयः श्लाघ्यं = प्रशंसनीयम् ककुत्स्थस्य अपत्यं पुमान् काकुत्स्थः, काकुत्स्थ इति शब्दः = संज्ञा इति तं काकुत्स्थशब्दं दधति = बिभ्रति ।