________________
षष्ठः सर्गः
समास:--सम्यगाकुल: इति समाकुल:। वामात् इतर इति वामेतरः । केयूरस्य बन्धः केयूरबन्धः केयूरबन्धस्य उच्छ्वसितानि तै: केयूरबन्धोच्छ्वसितैः ।
हिन्दी-जब वह इन्दुमती समीप में आकर खड़ी हो गई तो रघु का पुत्र अज 'मुझे यह वरण करेगी या नहीं' इस संशय में पड़ गया। किन्तु उसी समय अज के दाहिने हाथ ने भुजबन्ध के स्थान में फरकने से संशय को दूर कर दिया ॥ ६८॥
तं प्राप्य सर्वावयवानवां व्यावर्ततान्योपगमात्कुमारी। न हि प्रफुल्ल सहकारमेत्य वृक्षान्तरं काङ्क्षति षट्पदाली ॥६९।।
संजी०--तमिति । कुमारी । सर्वेष्ववयवेष्वनवद्यमदोषं तमजं प्राप्य । अन्योपगमाद्राजान्तरोपगमाद्व्यावर्तत निवृत्ता, तथाहि-षट्पदाली भृङ्गावलिः । प्रफुल्लतीति प्रफुल्लं विकसितम्। पुष्पितमित्यर्थः । प्रपूर्वात्फुल्लतेः पचाद्यच् । फलतेस्तु प्रफुल्लमिति पठितव्यम् । 'अनुपसर्गात्-'(पा.८।२।५५) इति निषेधात्। इत्युभयथापि न कदाचिदनुपपत्तिरित्युक्तं प्राक्। सहकारं चूतविशेषमेत्य । 'आम्रश्चूतो रसालोऽसौ सहकारोऽतिसौरभः' इत्यमरः । वृक्षान्तरं न काक्षति । न हि सर्वोत्कृष्टवस्तुलाभेऽपि वस्त्वन्तरस्याभिलाषः स्यादित्यर्थः ॥ ६९ ॥
अन्वयः-कुमारी सर्वावयवानवद्यं तं प्राप्य अन्योपगमात् व्यावर्तत हि षट्पदाली प्रफुल्लं सहकारम् एत्य वृक्षान्तरं न कांक्षति । ___ व्याख्या-कुमारी = कन्या, इन्दुमतीत्यर्थः सर्वे च ते अवयवाः सर्वावयवाः सर्वावयवेषु सम्पूर्णाङ्गेषु अनवद्य:-दोषरहितः, तं सर्वावयवानवद्यं तम् =अजं प्राप्य अवाप्य, अन्यस्य=अपरस्य, उपगमः=समीपगमनं तस्मात् अन्योपगमात् राजान्तरसमीपगमनादित्यर्थः, व्यावर्तत=निवृत्ता, हि तथाहि षट् =षट्संख्यकाः पदानि =चरणाः येषान्ते षट्पदास्तेषाम् आली पक्तिः , षट्पदाली=भ्रमरावलिः, प्रफुल्लतीति प्रफुल्लं = विकसितं सहकारम् =आम्रवृक्षम् एल्य प्राप्य अन्यो वृक्षः वृक्षान्तरं तत् वृक्षान्तरम् =पादपान्तरं न नैव कांक्षति =अभिलषति ।
समासः-न अवद्यः अनवद्यः सर्वे च ते अवयवाश्च सर्वावयवाः, सर्वावयवेषु अनवद्यस्तं सर्वावयवानवद्यम् । अन्यस्य उपगमस्तस्मात् अन्योपगमात् । अन्यः वृक्षः