________________
रघुवंश महाकाव्ये
संजी० -- इन्दीवरेति । असौ नृप इन्दीवरश्यामतनुः, त्वं रोचना गोरोचनेव गौरी शरीरयष्टिर्यस्याः सा । ततस्तडित्तोयदयोर्विद्युन्मेघयोरिव वां युवयोर्योगः समागमोऽन्योन्यशोभायाः परिवृद्धयेऽस्तु ॥ ६५ ॥
अन्वयः - असौ नृपः इन्दीवरश्यामतनुः त्वं रोचनागौरशरीरयष्टिः, तडित्तोयदयोः इव वां योगः अन्योन्यशोभापरिवृद्धये अस्तु ।
व्याख्या—असौ=पुरोवर्ती नृन् = जनान् पाति = रक्षतीति नृपः = राजा, इन्दीवरं = नीलाम्बुजमिव श्यामा = • कृष्णा तनुः शरीरं यस्य स इन्दीवरश्यामतनुः, त्वम् = इन्दुमती रोचना = गोरोचना इव गौरी = धवला, श्वेता, शरीरमेव यष्टिः = देहयष्टिः यस्याः सा रोचनागौरशरीरयष्टिः ( तस्मात् ) तडित = विद्युत् तोयदः = मेघश्चेति तडित्तोयदौ तयोस्तडित्तोयदयोः इव = यथा वाम् = युवयोः, योगः = संबन्धः समागम इत्यर्थः, अन्योन्यस्य = परस्परस्य शोभा = कान्तिः तस्याः परिवृद्धिः = प्रवर्द्धनम् इति अन्योन्यशोभापरिवृद्धिः, तस्यै अन्योन्यशोभापरिवृद्धये अस्तु = भवतु ।
समासः -- इन्दीवरमिव श्यामा तनुर्यस्य स इन्दीवरश्यामतनुः । शरीरमेव यष्टिरिति शरीरयष्टिः रोचना इव गौरी शरीरयष्टिः यस्याः सा रोचनागौरशरीरयष्टिः । तडिच्च तोयदश्चेति तडित्तोयदी तयो तडित्तोयदयोः । अन्योन्यस्य शोभा, अन्योन्यशोभा तस्याः परिवृद्धिः, तस्यै अन्योन्यशोभापरिवृद्धये ।
हिन्दी -- यह सामने बैठा हुआ राजा नीलकमल के समान सांवले शरीर वाला है और तुम गोरोचन की तरह गोरे शरीर वाली हो। इसलिए बिजली और मेघ की तरह तुम दोनों का समागम एक दूसरे की शोभा को बढ़ाने के लिए हो अर्थात् मेघ के समान यह राजा हैं और बिजली के समान तुम हो, अतः मेघ बिजली की तरह तुम्हारा समागम स्थायी एवं परस्पर की शोभावृद्धि करने वाला हो ॥ ६५ ॥
६२
स्वसुविदर्भाधिपतेस्तदीयो लेभेऽन्तरं चेतसि नोपदेशः । दिवाकरादर्शनबद्धकोशे नक्षत्रनाथांशुरिवारविन्दे || ६६ ||
संजी० - स्वसुरिति । विदर्भाधिपतेर्भोजस्य स्वसुरिन्दुमत्याश्चेतसि तदीयः सुनन्दासंबन्ध्युपदेशो वाक्यम् । दिवाकरस्यादर्शनेन बद्धकोशे मुकुलितेऽरविन्दे नक्षत्रनाथांशुश्चन्द्रकिरण इव अन्तरमवकाशं न लेभे ।। ६६ ।।