SearchBrowseAboutContactDonate
Page Preview
Page 499
Loading...
Download File
Download File
Page Text
________________ षष्ठः सर्गः संजी०--ताम्बुलेति । ताम्बूलवल्लीभिर्नागवल्लीभिः परिणद्धाः परिरब्धाः पूगा: क्रमका यासु तासु 'ताम्बूलवल्ली ताम्बूली नागवल्ल्यपि' इति, 'घोण्टा तु पूगः क्रमुकः' इति चामरः, एलालताभिरालिङिगताश्चन्दना मलयजा यासु तासु । 'गन्धसारो मलयजो भद्रश्रीश्चन्दनोऽस्त्रियाम्' इत्यमरः । तमालस्य तापिच्छस्य पत्राण्येवास्तरणानि यासु तासु । 'कालस्कन्धस्तमाल: स्यात्तापिच्छोऽपि' इत्यमरः । मलयस्थलीषु शश्वन्मुहुः सदा वा रन्तुं प्रसीदानुकूला भव ।। ६४ ॥ अन्वयः--ताम्बूलवल्लीपरिणद्धपूगासु एलालतालिङ्गितचन्दनासु तमालपत्रास्तरणासु मलयस्थलीषु, शश्वत रन्तुं प्रसीद। व्याख्या-ताम्बूलस्य वल्ल्यः = लताः, इति ताम्बूलवल्ल्यस्ताभिः परिणद्धाः= परिवेष्टिताः पूगा:=क्रमुकवृक्षाः यासु ताः, तासु ताम्बूलवल्लीपरिणद्धपूगासु, एलानां= पृथ्वीकानां लताः = व्रतत्यः, ताभिः आलिंगिताः = वेष्टिताः चन्दना:= मलयजा: यासु ताः, तासु एलालतालिंगितचन्दनासु, तमालस्यतापिच्छस्य पत्राणि = पर्णानि, एव आस्तरणानि =प्रच्छदपटाः, यासु ताः, तासु तमालपत्रास्तरणासु, मलयस्य दक्षिणदेशस्य पर्वतविशेषस्य स्थल्यः = भूमयस्तासु मलयस्थलीषु शश्वत् = सर्वदा रन्तुं = क्रीडितुं प्रसीद = प्रसन्ना भव, त्वमिन्दुमतीति शेषः। समासः-ताम्बूलस्य वल्ल्यस्ताभिः परिणद्धाः पूगाः, यासु तास्तासु ताम्बूलवल्लीपरिणद्धपूगासु । एलानां लतास्ताभि: आलिंगिताः चन्दनाः यासु ताः, तासु एलालतालिंगितचन्दनासु । तमालस्य पत्राणि एव आस्तरणानि यासु ताः, तासु तमालपत्रास्तरणासु। मलयस्य स्थल्यस्तासु मलयस्थलीषु। हिन्दी-पान की बेलों से ढके हुए हैं सुपारी के वृक्ष, जिनमें और जहाँ इलायची की लताओं से चन्दन के पेड़ लिपटे हुए हैं तथा जिनमें ताड़ के पत्ते ही चाँदनी के रूप में विछे हैं ऐसी मलयगिरि की घाटियों में सर्वदा विहार करने के लिए तुम प्रसन्न हो जाओ अर्थात् यदि ऐसी मलयभूमि में सदा विहार करने की इच्छा हो तो इनसे विवाह कर लो ।। ६४ ॥ इन्दीवरश्यामतनुन पोऽसौ त्वं रोचनागौरशरीरयष्टिः । अन्योन्यशोभापरिवृद्धये वां योगस्तडित्तोयदयोरिवास्तु ॥६५॥
SR No.032598
Book TitleRaghuvansh Mahakavya
Original Sutra AuthorN/A
AuthorKalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
PublisherMotilal Banarsidass
Publication Year1987
Total Pages1412
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy