________________
षष्ठः सर्गः अन्वयः-विदर्भाधिपतेः स्वसुः चेतसि तदीयः उपदेशः, दिवाकरादर्शनबद्धकोशे अरविन्दे नक्षत्रनाथांसुः इव अन्तरम् न लेभे।
व्याख्या--विदर्भस्य = देशविशेषस्य अधिपतिः = स्वामी = राजा तस्य विदर्भाधिपतेः = भोजस्य स्वसुः भगिन्या इन्दुमत्या इत्यर्थः चेतसि = चित्ते तस्याः सुनन्दायाः अयं तदीयः उपदेशः कथनं वाक्यम्, दिवाकरस्य = सूर्यस्य अदर्शनम् =' अप्रकाशः तेन बद्धः = अविकसितः कोशः यस्य तस्मिन् अरविन्दे = कमले नक्षत्राणां = ताराणां नाथः = स्वामी = चन्द्रस्तस्य अंशुः = किरणः इव = यथा अन्तरम् = अवकाशं स्थानमित्यर्थः ननहि लेभे प्राप्तवान् ।
समासः--विदर्भस्य अधिपतेः, तस्य विदर्भाधिपतेः । तस्या अयं तदीयः। न दर्शन मिति अदर्शनम् दिवाकरस्य अदर्शनं तेन बद्धः कोशः यस्य तत्तस्मिन् दिवाकरादर्शनबद्धकोशे । नक्षत्राणां नाथस्तस्य अंशुः नक्षत्रनाथांशुः ।
हिन्दी-हिन्दी विदर्भ (बरार) के राजा भोज की बहन के मन में सुनन्दा का उपदेश उसी प्रकार स्थान न प्राप्त कर सका, जिस प्रकार सूई के न दीखने से बन्द हुए कमल में नक्षत्रों के स्वामी चन्द्रमा की किरणें स्थान नहीं प्राप्त कर सकती हैं ।। ६६ ॥
संचारिणी दीपशिखेव रात्रौ यं यं व्यतीयाय पतिवरा सा। नरेन्द्रमार्गाट्ट इव प्रपेदे विवर्णभावं स स भूमिपालः ॥ ६७ ॥
संजी०-संचारिणीति । पतिवरा सेन्दुमती रात्रौ संचारिणी दीपशिखेव यं यं भूमिपालं व्यतीतयायातीत्य गता स स भूमिपालः। स सर्व इत्यर्थः । 'नित्यवीप्सयोः' (पा. ८।१।४) इति वीप्सायां द्विवचनम् । नरेन्द्रमार्गे राजपथेट्टाख्यो गृहभेद इव 'स्यादट्टः क्षौममस्त्रियाम्' इत्यमरः । विवर्णभावं विच्छायत्वम् । प्रपेदे ।। ६७ ॥ ___ अन्वयः-पतिवरा सा रात्री संचारिणी दीपशिखा इव यं यं व्यतीयाय, स स भूमिपाल: नरेन्द्रमार्गाट्ट इव विवर्णभावं प्रपेदे ।
व्याख्या--पतिं वृणोति या सा। पतिवरा = स्वयंवरा, सा = इन्दुमती, रात्रौ = निशायां संचरितुं शीलं यस्याः सा संचारिणी = गमनशीला दीपस्य= प्रदीपस्य शिखा = अचिः = ज्वाला दीपशिखा इव यथा यं यं = भूमिपालं व्यती