________________
षष्ठः सर्गः
४९
व्याख्या-किंच प्रकृष्टा वृट् यत्र सा प्रावृट् तस्याम् प्रावृषि = वर्षासु, कान्तासु = मनोहरासु, गोवर्धनस्य = पर्वतस्य, कन्दराः = दर्यस्तासु, गोवर्धनकन्दरासु, अम्भस:जलस्य पृषताः = बिन्दवस्तैः उक्षितानि = सिक्तानि, इति अम्भःपृषतोक्षितानि, शिलासु भवं शैलेयम् = शिलाजतुनः, गन्धः = सौरभम्, अस्ति येषु तानि शलेयगन्धीनि शिलानां तलानीतितानि शिलातलानि = प्रस्तरतलानि, अध्यास्य = अधिष्ठाय, कलापाः = बर्हाः सन्ति येषु ते कलापिनस्तेषां कलापिनाम्, = मयूराणाम्, नृत्यम् == नर्तनं पश्य = अवलोकय त्वमिति शेषः ।
समास:-प्रकृष्टा वट यस्यां सा प्रावट तस्यां प्रावृषि गोवर्धनस्य कन्दरास्तासु गोवर्धनकन्दरासु, अम्भसः पृषतास्तैः उक्षितानि अम्भःपृषतोक्षितानि, तानि शिलायां भवं शलेयं तस्य गन्ध : अस्ति येषु तानि शैलेयगन्धीनि तानि, शिलानाम् तलानि शिलातलानि तानि, कलापाः सन्ति येषां ते तेषां कलापिनाम् ।
हिन्दी-और वर्षाऋतु में गोवर्धन पर्वत की सुहावनी गुफाओं में जल की फुहारों से भीगी हुई शिलाजीत की गन्धवाली पत्थर की चट्टानों पर बैठकर मोरों के नाच को तुम देखो ॥ ५१ ॥
नृपं तमावर्तमनोज्ञनाभिः सा व्यत्यगादन्यवधू वित्री। महीधरं मार्गवशादुपेतं स्रोतोवहा सागरगामिनीव ।। ५२॥
संजी०-नृपमिति । 'स्यादावर्तोऽम्भसां भ्रमः' इत्यमरः। आवर्तमनोज्ञा नाभिर्यस्याः सा । इदं च नदीसाम्यार्थमुक्तम् । अन्यवधूरन्यपत्नी भवित्री भाविनी सा कुमारी महीधरं तं नपम् । सागरगामिनी सागरं गन्त्री स्रोतोवहा नदी मार्गवशादुपेतं प्राप्तं महीधरं पर्वतमिव । व्यत्यगादतीत्य गता ॥ ५२ ॥
अन्वयः-आवर्तमनोज्ञनाभिः अन्यवधूः भवित्री सा तं नृपम् सागरगामिनी स्रोतोवहा मार्गवशात् उपेतं महीधरम् इव व्यत्यगात् ।
व्याख्या-आवर्तः = जल भ्रमः इव मनोज्ञा = मनोहरा नाभिः यस्याः सा आवर्तमनोज्ञनाभिः, अन्यस्य = अपरस्य, वधू: पत्नी, अन्यवधूः, भवित्री भाविनी सा=इन्दुमती तम्=सुषेणं नृपम् सागरम् = समुद्रम् गच्छति = यातीति सा समुद्रगामिनी स्रोतोभिः वहति या सा स्रोतोवहा = नदी, मार्गस्य = पथः, वशं =