________________
• रघुवंशमहाकाव्ये मृदूनि=सुकोमलानि, पल्लवानि=पत्राणि, उत्तराणि = प्रस्तारितानि = उत्तरच्छदानीत्यर्थः, यस्यां सा मुदुप्रवालोत्तरा, मृदुप्रवालोत्तरा पुष्पशय्या यस्मिन् तत्, तस्मिन् मृदुप्रवालोत्तरपुष्पशय्ये, चित्ररथस्य इदं चैत्ररथम् तस्मात् चेत्ररथात्-कुबेरोद्यानात्, अनूने = समाने, वृन्दावने = वृन्दावननामकोद्याने, है सुन्दरि = हे शोभने ! यूनो भावः, यौवनम्, यौवनस्य- तारुण्यस्य, श्रीः = सौभाग्यं फलभिति यावत् सा यौवनश्रीः निर्विश्यताम् भुज्यताम् ।
समास:--मृदूनि प्रवालानि उत्तराणि यस्यां सा मृदुषवालोत्तरा, पुष्पाणाम् शय्या पुष्पशय्या, मृदुप्र वालोत्तरा पुष्पशय्या यस्मिन् तत्, तस्मिन् मृदुप्रवालोत्तरपुष्पशय्ये । चित्ररथस्येदं चैत्ररथम् तस्मात् चैत्ररथात् न नूनम् अनूनम् तस्मिन् अनूने, वृन्दानां वनमिति वृन्दावनम् तस्मिन् वृन्दावने, यूनो भावः यौवनम् तस्य श्रीः यौवनश्रीः ।
हिन्दी-हे सुन्दरी ! इस जवान सुषेण राजा को पति बनाकर ( अर्थात् इसके साथ विवाह करके ) कोमल पत्तों तथा फूलों की शय्या जिसमें बनी हुई है और कुबेर के चैत्ररथ नाम के उद्यान से भी अधिक सुन्दर ऐसे वृन्दावन में अपनी जवानी की शोभा का उपभोग करो॥५०॥
अध्यास्य चाम्भ:पृषतोक्षितानि शैलेयगन्धीनि शिलातलानि । कलापिनां प्रावृषि पश्य नृत्यं कान्तासु गोवर्धनकन्दरासु ॥५१॥
संजी०-अध्यास्येति । किंच, प्रावृषि वर्षासु कान्तासु गोवर्धनस्याद्रेः कन्दरासु दरीषु । 'दरी तु कन्दरो वा स्त्री' इत्यमरः । अम्ससः पृषतैबिन्दुभिरुक्षितानि सिक्तानि । शिलायां भवं शैलेयम् । 'शिलाजतु च शैलेयम्' इति यादव: । यद्वाशिलापुष्पाख्य ओषधि विशेषः । कालानुसार्यवृद्धाश्मपुष्पशीतशिवानि तु । शैलेयम्' इत्यमरः । 'शिलाया ढः' (पा. ५।३।१०२) इत्यत्र शिलाया इति योगविभागादिवार्थे ढप्रत्ययः । तद्गन्धवन्ति शैलेयगन्धीनि शिलातलान्यध्यास्याधिष्ठाय कलापिनां वर्हिणां नृत्यं पश्य ॥५१॥
अन्वयः-किंच प्रावृषि कान्तासु गोवर्धनकन्दरासु, अम्भःपृषतोक्षितानि शैलेयगन्धीनि शिलातलानि अध्यास्य कलापिनां नृत्यं पश्य ।