________________
. रघुवंशमहाकाव्ये कारणं तस्मात् मार्गवशात् उपेतम् = प्राप्तम् महीं धरतीति महीधरस्तं महीधरम् = पर्वतम्. इव = यथा व्यत्यगात् = अतीत्य गता।
समास:--आवर्तः इव मनोज्ञा नाभिर्यस्याः सा आवर्तमनोज्ञनामिः । मार्गस्य वशः तस्मात् मार्गवशात् । अन्यस्य वधूः, अन्यवधूः । महीं धरतीति महीधरस्तं महीधरम् । स्रोतोभिः वहपि या सा स्रोतावहा । सागरं गच्छति या सा सागरगामिनी।
हिन्दी--जल के भंवर के समान गहरी सुन्दर नाभिवाली और दूसरे की पत्नी होनेवाली वह इन्दुमती, राजा सुषेण को छोड़कर वैसे ही आगे बढ़ चली, जैसे समुद्र को ओर जाती हुई नदी मार्ग में पड़े हुए पहाड़ को छोड़कर चली जाती है ।। ५२ ।।
अथाङ्गदाश्लिष्टभुजं भुजिष्या हेमाङ्गदं नाम कलिङ्गनाथम् । आसेदुषी सादितशत्रुपक्षं बालामबालेन्दुमुखीं बभाषे ॥ ५३ ।।
संजी-अथेति । अथ भुजिष्या किंकरी सुनन्दा । 'भुजिष्या किंकरी मता' इति हलायुधः । अङ्गदाश्लिष्टभुजं केयूरनद्धबाहुं सादितशत्रुपक्षं विनाशितशत्रुवर्ग हेमाङ्गदं नाम कलिङ्ग नाथमासेदुषीमासन्नामबालेन्दुमुखी पूर्णेन्दुमुखी बालामिन्दुमती बभाषे ॥ ५३ ॥
अन्वयः-अथ भुजिष्या अंगदाश्लिष्टभुजं सादितशत्रुपक्षम् हेमांगदं नाम कलिंगनाथम् आसेदुषीम् अबालेन्दुमुखी बालाम् बभाषे।
व्याख्या-अथ = अनन्तरम्, भुजिष्या = किंकरी दासीत्यर्थः अंगदेन = केयूरेण आश्लिष्टः = बद्धः, भुजः = बाहुः यस्य स तम् अंगदाश्लिष्टभुजम् । सादितः = नाशितः शत्रूणाम् = अरीणाम् पक्षः=वर्ग:, येन स तम्, सादितशत्रुपक्षम् । हेमाङ्ग दम् = हेमांगदनामानम् कलिंगानाम् = जनपदानाम् नाथः = स्वामी, तम्, कलिंगनाथम् । आसेदुषीम् = प्राप्तवतीम्, अबाल: = पूर्णश्चासौ, इन्दुः = चन्द्रः, इति अबालेन्दुः, तद्वत् मुखम् = आननम् यस्याः सा ताम् अवालेन्दुमुखीम्, बालाम् = कुमारीम् इन्दुमतीमित्यर्थः, बभाषे = उवाच कथितवतीत्यर्थः ।
समास:--अंगदेन आश्लिष्ट: भुजः यस्य सः, तम् अंगदाश्लिष्टभुजम् । सादितः शत्रूणां पक्षः येन सः, तम् सादितशत्रुपक्षम्। कलिंगानाम् नाथस्तम् कलिंगनाथम् ।