________________
षष्ठः सर्गः
४५
=
यस्य = सुषेणस्य कान्तिः = शोभा आत्मनः = स्वस्य, गेहम् = गृहम् इति तस्मिन् आत्मगेहे संनिविष्टा संक्रान्ता | न विषह्यमिति अविषह्यम् = प्रचण्डम् सोढुमशक्यमित्यर्थः तेजः = प्रतापः (तु) हर्म्याणाम् = धनिकभवनानाम् अग्राणि = प्रान्तभागा स्तेषु संरूढाः = उत्पन्नाः, तृणानाम् = घासानाम्, अङकुरा: =अंकूराः नूतनप्ररोहा इत्यर्थः, येषान्ते तेषु हर्म्याग्रसंख्ढतृणाङ्कुरेषु ( 'अंकुरश्चाङ्करः प्रोक्त' इति हलायुधः ) रिपूणाम् = शत्रूणाम् मन्दिराणि = नगराणि तेषु रिपुमन्दिरेषु संनिविष्टम् = व्याप्तम् । अयं खलु स्वसुहृद्वर्गाह्लादकः शत्रुवर्गताप कश्चेत्यर्थः ।
:=
समास : - हिमाः अंशवो यस्य स तस्य हिमांशोः । नयनयोः अभिरामा नयनाभिरामा । आत्मन: गेहमिति तस्मिन् आत्मगेहे । हर्म्याणाम् अग्राणि तेषु संरूढाः तृणानाम् अङ्कुराः येषान्ते तेषु हर्म्याग्रसंरूढतृणांकुरेषु । रिपूणाम् मन्दिराणि तेषु रिपुमन्दिरेषु !
हिन्दी - चन्द्रमा की चाँदनी के समान आँखों को आनन्द देने वाला सुषेण राजा का प्रकाश तो अपने घर में रहता है । और सूर्य के समान इनका प्रचण्ड तेज शत्रुओं के उन नगरों में छाया रहता है जिनके उजड़ जाने से धनिकों के भवनों के अग्रभाग में घास के अंकुर निकल आए हैं ॥ ४७ ॥
यस्यावरोधस्तन चन्दनानां प्रक्षालनाद्वारिविहारकाले । कलिन्दकन्या मथुरां गतापि गङ्गोमिसंसक्तजलेव भाति ॥ ४८ ॥
संजी० - यस्येति । यस्य सुषेणस्य वारिविहारकाले जलक्रीडासमयेऽवरोधानामन्तःपुराङ्गनानां स्तनेषु चन्दनानां मलयजानां प्रक्षालनाद्धेतोः कलिन्दो नाम शैलस्तत्कन्या यमुना | कालिन्दी सूर्यतनया यमुना शमनस्वसा' इत्यमरः । मथुरा नामास्य राज्ञो नगरी । तां गतापि । गङ्गाया विप्रकृष्टापीत्यर्थः, मथुरायां गङ्गाभावं सूचयति 'अपि' शब्द: । कालिन्दीतीरे मथुरा लवणासुरवधकाले शत्रुघ्नेन निर्मातेति वक्ष्यति । तत्कथमधुना मथुरासंभव इति चिन्त्यम् । मथुरा मथुरापुरीतिशब्दभेदः । यद्वा-सान्येति । गङ्गाया भागीरथ्या ऊर्मिभिः संसक्तजलेव भाति । धवलचन्दनसंसर्गात्प्रयागादन्यत्राप्यत्र गङ्गासंगतेव भातीत्यर्थः । ' सितासिते हि गङ्गायमुने' इति घण्टापथः ।। ४८ ।।