________________
४६
रघुवंशमहाकाव्ये अन्वयः--यस्य वारिविहारकाले, अवरोधस्तनचन्दनानां प्रक्षालनात (हेतोः) कलिन्दकन्या मथुरां गता अपि, गङ्गोर्मिसंसक्तजला इव भाति ।
व्याख्या–यस्य --भुषेणस्य वारिषु जलेषु, विहारः = क्रीड़ा, इति वारिविहारस्तस्य कालः = समयस्तस्मिन् वारिविहारकाले, अवरोधानाम् = अन्तःपुरस्त्रीणाम् स्तनाः = कुचास्तेषु चन्दनानि मलयजानि तेषाम् अवरोधस्तनचन्दनानाम् प्रक्षालनात् = क्षालनात्, हेतोः कलिन्दस्य = पर्वतविशेषस्य, कन्या = तनया, इति कलिन्दकन्या यमुनेत्यर्थः, मथुरां = मथुरापुरीम् सुषेणराजधानीमित्यर्थः । गता= प्राप्ता अपि (मथुरायां गंगा नास्तीति गंगाया अभावं सूचयत्यपिशब्दः) गङ्गायाः भागीरथ्याः ऊर्मयः = तरंगास्तैः संसक्तम् = मिलितम् संभिन्नम् जलम् पयः यस्याः सा गंगोर्मिसंसक्तजला इव = यथा भाति-शोभते । मथुरायां गंगाभावेऽपि सुषेणस्य अन्तःपुरांगनाकुचसंलग्नधवलचन्दनसंसर्गेण अत्रपि गंगासंगतेव यमुना शोभते इत्यर्थः ।
समास:-वारिषु विहारस्तस्य कालस्तस्मिन् वारिविहारकाले, अवरोधानाम् स्तनास्तेषु चन्दनानि, इति अवरोधचन्दनानि तेषान्तथोक्तानाम् । कलिन्दस्य कन्येति कलिन्दकन्या, गङ्गायाः ऊर्मयस्तैः संसक्तं जलं यस्याः सा गंगोनिसंसक्तजला।
हिन्दी-सुषेण राजा के जल क्रीड़ा करने के समय इनकी रानियों के स्तनों पर लगे सुफेद चन्दन के धुलकर जल में मिल जाने से मथुरा में भी यमुना ऐसी प्रतीत होती है मानो गंगाजी की लहरों से यमुना का जल मिला हुआ है। अर्थात् धवल चन्दन के यमुना जल में मिल जाने के कारण प्रतीत होता है कि प्रयाग के अलावा यहाँ भी गंगा यमुना संगम हो गया है,॥४८॥
त्रस्तेन ताात्किल कालियेन मणि विसृष्टं यमुनौकसा यः। वक्षःस्थलव्यापिरुचं दधानः सकौस्तुभं ह्र पयतीव कृष्णम् ।।४९।।
संजी-त्रस्तेनेति । तााद् गरुडात्त्रस्तेन । यमुनौकः स्थानं यस्य तेन । कालियेन नाम नागेन विसृष्टं किलाभयदाननिष्क्रयत्वेन दत्तम् । 'कल' इत्यतिह्ये । वक्षःस्थलव्यापिरुचं मणि दधानो यः सुषेणः सकौस्तुभं कृष्णं विष्णुं हृपयतीव वोऽयतीव । 'अति ह्री-' (पा० ७।३।३६) इत्यादिना पुगागमः कौस्तुभमणेरप्युत्कृष्टोऽस्य मणिरिति भावः ॥४९॥