________________
रघुवंशमहाकाव्ये
अन्वयः-यज्दा एषः पार्थिवः नीपान्वयः (अस्ति) यम् आश्रित्य गुणः शान्तम् सिद्धाश्रमम् एत्य सत्त्व: इव नैसगिकः अपि परस्परेण विरोधः उत्ससृजे।
व्याख्या--यजते स्म यज्वा याजकः विधिनेष्टवान इत्यर्थः एषः पुरोवर्ती पृथिव्याः ईश्वरः पार्थिवः = भूपालः, नीपः अन्वयोऽस्येति नीपान्वयः = नीपकुलोत्पन्नः अस्तीति शेषः यम् -- सुषेणम् आश्रित्य = आलम्ब्य गुणैः= ज्ञानमौनादिभिः शान्तम् = प्रसन्नम् सिद्धानाम् = तपस्विनाम् ऋषीणाम् आश्रमः == आवसथः तम् सिद्धाश्रमम् = मुक्तिस्थानमित्यर्थः, एत्य = प्राप्य सत्वैः = सिंहादिप्राणिभिः इव = यथा निसर्गात् जातः नैसर्गिकः = स्वाभाविकः अपिः = समुच्चये परस्परेण = अन्योन्येन विरोधः = वैरम् = विद्वेषः इत्यर्थः, उत्ससृजे = परित्यक्तः । ___ समास -यजतेस्म् यज्वा, पृथिव्याः ईश्वर: पार्थिवः नीपः अन्वयो यस्य स नीपान्वयः, सिद्धानाम् आश्रमस्तम् सिद्धाश्रमम् । निसर्गात् जातः, नैसर्गिकः ।।
हिन्दी-विधिपूर्वक यज्ञ किये हुए यह राजा नीप के वंश में उत्पन्न हुआ है। इस राजा के पास आकर ज्ञान मौन आदि विरोधी गुणों ने भी आपस का स्वाभाविक विरोध उसी प्रकार त्याग दिया है जिस प्रकार ऋषि मुनियो के शान्त आश्रम में आकर हिंसक जन्तु परस्पर का स्वाभाविक विरोध त्याग देते हैं ।। ४६ ॥
यस्यात्र गेहे नयनाभिरामा काहिमांशोरित मनिविष्टा । दाग्रसंझ तृणाङ्करेषु तेजोऽविषह्य रिपुमन्दिरेषु । ४७ ॥
संजी०-यस्येति । हिमांशोः कान्तिश्चन्द्रकिरणा इव नयनयो भिरामा यस्य सुषेणस्य कान्तिः शोभात्मगेहे स्वभवने सन्निविष्टा सङ्क्रान्ता। अविषां विसोढ़मशक्यं तेजः प्रतापस्तु । हाग्नेषु धनिकमन्दिरग्रान्तेषु । 'हादि निनां वासः' इत्यमरः । संरूढास्तृणाङ्कुरा येषां तेषु, शून्येष्वित्यर्थः। रिपुमन्दिरेषु शत्रुनगरेषु । 'मन्दिरं नगरे गृहे' इति विश्वः । सन्निविष्टम् । स्वजनाह्लादको द्विषन्तपश्चोत भावः।। ४७ ।। ___ अन्वयः--हिमांशोः कान्तिः इव नयनाभिरामा यस्य कान्तिः आत्महै संनिविष्टा अविह्यं तेजः (तु) हाग्रसंरूढतृणाङ्करेषु रिपुमन्दिरेषु संनिविष्टम् ।
व्याख्या--हिना:-शीतलाः अंशवः किरणाः यस्य स तस्य हिमांशोः चन्द्रस्य कान्ति:-द्युतिः इव यथा नयनयोः नेत्रयोः अभिरामा =मनोहरा, इति नयनाभिरामा