________________
४३
षष्ठः सर्गः ___ संजी.-सेति । लोकान्तरे स्वर्गादावपि गीतकीर्तिमाचारेण शुद्धयोरुभयोवंशयोर्मातापितृकु लयोर्दीपं प्रकाशकम्। उभयवंशेत्यत्रोभयपक्ष वनिर्वाहः । शूरसेनानां देशानामधिपति सुषेणं नाम नपतिमुद्दीश्याभिसन्धाय शुद्धान्तरक्ष्यान्तःपुरपालिकया । 'कर्मण्यण' 'टिड्ढाणञ्-' इति ङीप् । सा कुमारी जगदे ॥ ४५ ॥
अन्वयः-लोकान्तरगीतकीर्तिम्, आचारशुद्धोभयवंशदीपम्, शूरसेनाधिपतिम्, सुषेणम् उद्दिश्य शुद्धान्तरक्ष्या सा कुमारी जगदे।
व्याख्या--अन्यो लोक: लोकान्तरम्, लोकान्तरे=भुवनान्तरे स्वर्गादौ इत्यर्थः गीता-कीर्तिता कीर्ति:-यशो यस्य स तम्, लोकान्तरगीतकीर्तिम्, आचारेण= सदाचारेण शुद्धौ = निर्मलौ उभयौ = द्वौ वंशौ = मातापितृकुले, इति आचारशुद्धौभयवंशी, तयोः दीपः = प्रकाशकस्तम्, आचारशुद्धौभयवंशदीपम् शूरसेनानाम् = जनपदानाम्, अधिपतिः = स्वामी, तम् शूरसेनाधिपतिम् = मथुराधिपतिमित्यर्थः, सुषेणम् = सुषेणनामानम् उद्दिश्य-अभिसंधाय, शुद्धान्तम् = अन्तःपुरम् रक्षति = पालयतीति शुद्धान्तरक्षी तया शुद्धान्तरक्ष्या = सुनन्दया सा-पूर्वोक्ता कुमारी = इन्दुमती जगदे = कथिता।
समास:-अन्यो लोकः लोकान्तर, लोकान्तरे गीता कीतिर्यस्य स तम लोकान्तरगीतकीर्तिम् । आचारेण शुद्धौ उभयौ वंशौ, इति आचारशुद्धौभयवंशी तयोर्दीपस्तम् आचारशुद्धोभयवंशदीपम् । शूरसेनानाम् अधिपतिस्तम् शूरसेनाधिपतिम्, शुद्धान्तं रक्षति इति शुद्धान्तरक्षी तया शुद्धान्तरक्ष्या।
हिन्दी-स्वर्ग में जिसकी कीति का गान होता था और अपने पवित्र आचरण से मात कुल एवं पितृकुल को जिसने उज्ज्वल कर दिया था, ऐसे मथुरा के राजा सुषेण के पास ले जाकर रनिवास की सेविका सुनन्दा कुमारी इन्दुमती से बोली ॥ ४५ ॥
नीपान्वयः पार्थिव एष यज्वा गुणर्यमाश्रित्य परस्परेण । सिद्धाश्रमं शान्तमिवैत्य सत्त्वनैसर्गिकोऽप्युत्ससृजे विरोधः॥४६।।
संजी.-नीपान्वय इति । यज्वा विधिवदिष्टवान् । 'सुयजोर्ड वनिप्' इति वनिप्प्रत्ययः । एष पार्थिवो नीपो नामान्वयोऽस्येति नीपान्वयो नीपवंशजः । यं सुषेणमाश्रित्य गुणैर्ज्ञानमौनादिभिः शान्तं प्रसन्नं सिद्धाश्रममृष्याश्रममेत्य' प्राप्य सत्त्वैर्गजसिंहादिभिः प्राणिभिरिव नैसर्गिकः स्वाभाविकोऽपि परस्परेण विरोध उत्ससृजे त्यक्तः।