________________
३८
रघुवंशमहाकाव्ये समासः-न कार्यमिति अकार्य तस्य चिन्ता तया समकालमिति अकार्यचिन्तासमकालम, धरतीति धरः चापस्य धर: चापधरः।
हिन्दी-विनय की शिक्षा देने वाला कार्तवीर्य, उस मनुष्य के सामने धनुषबाण लेकर खड़ा हो जाता था, जो कि मन में भी चोरी आदि कुकार्य करने का विचार करता था। इस प्रकार उसने लोगों के मन से भी पाप को निकाल दिया था ।। ३९॥
ज्याबन्धनिष्पन्दभुजेन यस्य विनिःश्वसद्वक्त्रपरम्परेण । कारागृहे निजितवासवेन छङ्केश्वरेणोषितमाप्रसादात् ॥४०॥
संजी०-ज्य बन्धेति । ज्याया मौा बन्धेन बन्धनेन निष्पन्दा निश्चेष्टा भुजा यस्य तेन, विनिःश्वसन्ती ज्याबन्धोपरोधाद्दीर्घ निःश्वन्ती वक्त्रपरम्परा दशमुखी यस्य तेन निजितदासवेनेन्द्र विजयिना। अनेन्द्रादयोऽप्यनेन जितप्राया एवेति भावः । लङ्केश्वरेण दशास्येन यस्य कार्तवीर्यस्य कारागृहे बन्धनागारे, 'कारा स्याबन्धनालये' इत्यमरः । आप्रसादादनुग्रहपर्यन्तमुषितं स्थितम् । 'नपुंसके भावे क्तः। एतत्प्रसाद एव तस्य मोक्षोपायो न तु क्षात्रमिति भावः ॥४०॥
अन्वयः- ज्याबन्धनिष्पन्दभुजेन विनिःश्वसद्वक्त्रपरम्परेण निर्जितवासवेन लकेश्वरेण, यस्य कारागृहे आप्रसादात् उषितम् ।।
व्याख्या-ज्याया = धनुर्गुणेन, बन्धः = बन्धनम् तेन निष्पन्दाः=निश्चेष्टाः भुजाः = बाहवो यस्य सः ज्यावन्धनिष्पन्दभुजस्तेन तथोक्तेन, विनिःश्वसती = दीर्घ निःश्वसन्ती वक्त्राणाम = मुखानाम् परम्परा = पङ्क्तिर्यस्य सः, विनिःश्वसद्वक्त्रपरम्परस्तेन विनिःश्वसद्वक्त्रपरम्परेण निर्जितः विजित: वासवः = इन्द्र: येन स निर्जितवासबस्तेन निर्जितवासवेन, लंकायाः ईश्वरस्तेन लङ्केश्वरेण = रावणेन यस्य = कार्तवीर्यस्य, कारायाः = बन्धनस्य गृहम् तस्मिन कारागृहे आप्रसादात् = अनुग्रहपर्यन्तम् , उषितम् = स्थितम् ।
समास:-ज्यायाः बन्धस्तेन निष्पन्दाः भुजाः यस्य स तेन ज्याबन्ध निष्पन्दभुजेन, विनिःश्वसन्ती वक्त्राणाम परम्परा यस्य सः तेन विनिःश्वसद्वक्त्रपरम्परेण, निर्जितः वासवो येन सः तेन निर्जितवासवेन, लंकाया ईश्वरस्तेन लंकेश्वरेण, कारायाः गृहम् कारागृहम् तस्मिन् कारागृहे ।