________________
षष्ठः सर्गः
हिन्दी-धनुष की डोरी से कसकर बाँधने के कारण व्यर्थ चेष्टां शून्य भुजा वाले और जिसके दशोंमुख उसांसे (दीर्घश्वास ) भरते थे। ऐसे इन्द्र को भी जीतने वाले लंकेश्वर रावण ने जिस कार्तवीर्य के जेलखाने में तब तक निवास किया था जब तक कार्तवीर्य प्रसन्न नहीं हुआ था ॥ ४० ॥
तस्यान्वये भूपतिरेष जातः प्रतीप इत्यागमवृद्धसेवी।
येन श्रियः संश्रयदोषरूढं स्वभावलोलेत्ययशः प्रमृष्टम् ॥४१॥ संजी०--तस्येति । आगमवृद्धसेवी प्रतीप इति । ख्यात इति शेषः । एष भूपतिस्तस्य कार्तवीर्यस्यान्वये वंशे जातः । येन प्रतीपेन संश्रयस्याश्रयस्य पुंसो दोषैर्व्यसनादिभी रूढमुत्पन्नं श्रियः सम्बन्धि स्वभावलोला प्रकृतिचञ्चलेत्येवंरूपमयशो दुष्कीतिः प्रमृष्टं निरस्तम् । दुष्टाश्रयत्यागशीलायाः श्रियः प्रकृतिचापलप्रवादो मूढजनपरिकल्पित इत्यर्थः । अयं तु दोषराहित्यान्न कदाचिदपि श्रिया त्यज्यत इति भावः ॥४१॥
अन्वयः-आगमवृद्धसेवी प्रतीप इति (प्रसिद्ध इति शेषः) एषः भूपतिः तस्य अन्वये जातः, येन संश्रयदोषरूढम् श्रियः स्वभावलोला इति अयशः प्रमृष्टम् ।
व्याख्या-आगमान् = शास्त्राणि, वृद्धान् = जरठांश्च सेवते इति आगमवृद्धसेवी, आगमेषु वृद्धाः, इति आगमवृद्धाः श्रुतवृद्धास्तान् सेवते इति वा आगमवृद्धसेवी, प्रतीप:=प्रतीपनाम्ना प्रसिद्धः, एषः पुरोवर्ती, भूपति:-राजा, तस्य = कार्तवीर्यस्य, अन्वये = वंशे, जातः = उत्पन्नः, येन प्रतीपेन राज्ञा संश्रयस्य = आश्रयभूतपुरुषस्य दोषाः = दुर्व्यसनादयः इति आश्रयदोषास्तैः रूढम् = ख्यात, इति आश्रयदोषरूढम्, श्रियः= लक्ष्म्याः संबन्धि, स्वभावेन प्रकृत्या लोला= चञ्चला इति स्वभावलोला, इति = इत्येवंरूपम्, अयशः= दुष्कीतिः प्रमृष्टम् = निरस्तम् क्षालितमित्यर्थः । सर्वगुणसम्पन्नत्वात् सर्वदोषराहित्याच्च अयन्न श्रिया कदापि परिह्रियत इत्यर्थः । __ समासः-आगमेषु वृद्धास्तान सेवते, इति आगप्रवृद्धसेवी, यद्वा आगमान् वृद्धाश्च सेवते इति आगमवृद्धसेवी । संश्रयस्य दोषास्तैः रूढमिति संश्रयदोषरूढम्, स्वभावेन लोलेति स्वभावलोला, न यशः इति अयशः, भुवः पतिरिति भूपतिः ।