________________
षष्ठः सर्गः भवति यः सोऽनन्यसाधारणः अनन्यसाधारण: राजेतिशब्दो यस्य सोऽनन्यसाधारणराजशब्दः । योगोऽस्यास्तीति योगी। कृतवीर्यस्यापत्यं पुमान् कार्तवीर्यः।
हिन्दी-युद्धस्थल में हजार भुजाओं का अनुभव करने वाले ( अर्थात् लड़ने के समय हजार बाहु निकल आते थे) और अठारह द्वीपों में जिसने अपनी विजय के खम्भे गाड़ दिये थे और जिसके सामने कोई दूसरा राजा ही (सर्वप्राणियों को रंजन न करने में ) नहीं कहलाता था, ऐसा प्रतापी कार्तवीर्य नाम का योगी राजा हुआ ॥३८॥
अकार्यचिन्तासमकालमेव प्रादुर्भवंश्चापधरः पुरस्तात् । अन्तःशरीरेष्वपि यः प्रजानां प्रत्यादिदेशाविनयं विनेता ॥३९।।
संजी०-अकार्येति । विनेता शिक्षको य: कार्तवीर्यः। अकार्यस्यासत्कार्यस्य चिन्तया, अहं चौर्यादिकं करिष्यामीति बुद्धया। समकालमेककालमेव यथा तथा पुरस्तादग्रे चापधरः प्रादुर्भवन्सन, प्रजानां जनानाम्, 'प्रजा स्यात्सन्ततो जने' इत्यमरः। अन्तःशरीरेष्वन्तःकरणेषु शरीरशब्देनेन्द्रियं लक्ष्यते । अविनयमपि प्रत्यादिदेश मानसापराधमपि निवारयामासेत्यर्थः। अन्ये तु वाक्कायापराधमात्रप्रतिकार इति भावः ॥ ३९ ॥ _ अन्वयः-विनेता यः अकार्यचिन्तासमकालम् एव (यथा स्यात् तथा) पुरस्तात् चापधरः प्रादुर्भवन् सन्, प्रजानाम् अन्तःशरीरेषु अपि अविनयम प्रत्यादिदेश।
व्याख्या-विशेषेण नयति जनान् इति विनेता शिक्षकः, यः = कार्तवीर्यः, अकार्यस्य =असत्कार्यस्य चौर्यादेरित्यर्थः, चिन्ता = विचारः, इति अकार्यचिन्ता तया समकालम् = एककालम् इति अकार्यचिन्तासमकालम् एव यथा स्यात् तथा पुरस्तात् =अग्रे चौरादीनामग्रे इत्यर्थः, धरतीति धरः, चापस्य धरः चापधरः= धनुर्धरः प्रादुर्भवन् = स्वात्मानं प्रकटयन सन प्रजानाम् = लोकानाम् अन्तःशरीरेषु = अन्तःकरणेष, अपि:= समुच्चये न विनयः अविनयस्तम् असत्कार्यविचारमित्यर्थः, प्रत्यादिदेश = निराचकार। अन्ये राजानो हस्तपादादिकृतमेवापराधं निवारयन्ति, कार्तवीर्यस्तु मनसा चिन्तितमपि अपराधं निवारयतीत्यर्थः ।